________________ 334 पञ्चग्रन्थी व्याकरणम् एवं / [न्यगूढ / न्यधुक्षत / न्यगूढाः / न्युधुक्षथाः / न्यगूवम् / न्युधुक्षध्वम् / न्युधुह्वहि / न्यधुक्षावहि / ] अतः किम् ? व्यत्यश्लिक्षत / तङि किम् ? अधुक्षत् / दन्त्ये किम् ? अधुक्षामहि // ___(162) उम्पुम्थुको वच्यतोऽस्याङि / [4 / 2 / 14 / 7 / ] वक्ति-पतृ-अस्यतीनाम् उम् पुम् थुगागमः स्याल्लुङ्परेऽङि परतः / अवोचत् अपप्तत् / आस्थत् / अङि किम् ? अपतिष्ट // (163) दृश्ख्योऽर् / [ 4 / 2 / 14 / 8 / ] दृशश्विऋ ऋवर्णान्तानां यथार्ह ऋ अर् श्वेरन्तः अः . स्यात् लुङयङि / अदर्शत् / आरत् / असरत् / अजरत् / अश्वत् / अङि किम् ? अद्राक्षीत् / आर्षीत् आसार्षीत् / अश्वयीत् // __ (164) अश्शास्ख्योऽङ् च कर्तेति / [ 4 / 2 / 14 / 9 / ] कर्ता चेत् लुङर्थः, कर्तरीत्यर्थः, शासु ख्याते, चकारात् वचादेश्च लुङि अङ् स्यात् / अशिषत् / [आस्थत् / आख्यत् / अवोचत् // ]. (165) लिप्ह्वासिचः / [ 4 / 2 / 14 / 10 / ] तथा / अलिपत् / आह्वत् / असिचत् // 14 // (166) वाऽतङि / [4 / 2 / 15 / 1 / ] लिपादेः लुङि तङि परे कर्तर्यङ् वा स्यात् / अलिपत / अलिप्त / [असिचत् / असिक्त / आह्वत् / आह्वास्त // ] (167) स्तम्भुजमुम्लुचुग्लुच्चु ग्लुञ्च(तः) श्वीरितोऽतङि / [ 4 / 2 / 15 / 2 / ] एभ्योऽतविषये लुङि कर्तर्यङ् स्याद् वा / अस्तभत् / अजरत् / अमुचत् / अम्लुचत् / अग्लुचत् / अग्रुचत् / अग्लुञ्चत् / अश्वत् / इरिद् वा / अच्छिदत् / अभिदत् / सिज् वा / अस्तम्भीत् / [अजारीत् / अम्रोचीत् / अम्लोचीत् / अग्लोचीत् / अग्रोचीत् / अग्लुञ्चीत् / ] अश्वयीत् / अशिश्वियत् / अभैत्सीत् / [अच्छेत्सीत् / ] ग्लुञ्चुर्नालोपार्थम् / अतङि किम् ? अभित्त / (168) लृदिद्युत्पुषादेः / [4 / 2 / 15 / 3 / ] लुकारेतः धुतादिपुषादिभ्योऽपि तथाऽङ् नित्यम् / अगमत् / अशकत् / अद्युतत् / अश्वितत् / अपुषत् / अशिषत् / पुषादिर्दिवाद्यन्तर्गणः / अतङि किम् ? व्यद्योतिष्ट // (169) अनालिङ्गने च श्लिषः / [ 4 / 2 / 15 / 4 / ] तथाऽङ् / समाश्लिषत् जतु च काष्ठं च / असत्त्वाश्लेषे किम् ? समाश्लिक्षत् कन्यां ना / नियमार्थं वचनम् // (170) स्रो न वा / [ 4 / 2 / 15 / 5 / ] सृऋद्भ्यां तथाऽङ् वा / असरत् / असार्षीत् / आरत् / [आर्षीत् / ] मा सश्चषाताम् / समारत // (171) चश्विधेः / [ 4 / 2 / 15 / 6 / ] विधेट: चङ् वा स्यात् कर्तरि लुङि परे / अशिश्वियत् / [अश्वयीत् / ] अदधत् / अधात् / अधासीत् // (172) कंश्रिणिद्रुनुवः / [4 / 2 / 157 / ] तथा चङ् नित्यम् / अचकमत / अशिश्रियत् / णीति ण्यन्तात् / अचीकरत् / अचीकमत / अदुद्रुवत् / असुस्रुवत् // 15 // (173) तो लुगिण ते पदः / [ 4 / 2 / 16 / 1 / ] कर्तृलुङ्तादेशे परे पद्यतेरिण स्यात्, इण: