________________ चतुर्थोऽध्यायः द्वितीयः पादः 333 अशाध्वम् / आशाध्वम् // (149) अस्तास्त्रि / [4 / 2 / 13 / 10 / ] अस्तितास्रोः सलुक् से रे च परे / असि / कर्तारौ / कर्तारः / व्वृवृत्ते तावे [?] || (150) ताहे / [ 4 / 2 / 13 / 11 / ] लासो लुट्येति हो निपात्यते / अहं कर्ताहे // (151) अनमाऽलिङि। [ 4 / 2 / 13 / 12 / ] अलिङि तत्सदृशेऽन्यत्र डिति लुङ्लङ्लङि परे भ्वादेरडागमः स्यान्न चेन्मायोगः / अभूत् / अकरोत् / अकरिष्यत् / अमा किम् ? मा स प्राक्षीत् / मा स्म रचत् / अलिङिति किम् ? पचेत् // (152) अचाऽऽरैच्च / [ 4 / 2 / 13 / 13 / ] चाद्यचा परेण सहाट आ आर् ऐच् च स्यात् / आस्ताम् / आसन् / आटिष्यत् / आरत् / आच्छित् / आच्छिष्यत् / ऐक्षिष्ट / आयत् / ऐष्यत / ऐज्यत / औप्यत / इणेऽपि नत्वम् // (153) गी लुङ्लुङी वा / [ 4 / 2 / 13 / 14 / ] लुङ्लङि परे इड् गी वा स्यात् / अध्यगीष्ट / अध्यगीषत् / अध्यैष्यत / इडनेरेङर्थः // (154) वधो लिस्कि हन् / [4 / 2 / 13 / 15 / ] हन्तिर्वधोऽदन्तः स्यात् स्यादौ कादौ लिङि / आवधिषीष्ट / वध्यात् / [स्कि] किम् ? हन्यात् / आघ्नीत // (155) लुतडोर्वा / [ 4 / 2 / 13 / 16 / ] ओनिर्देशात् लुङि नित्यं, तस्यैव तङि वा हन् वध: स्यात् / अवधीत् / अवधीष्ट / अवधिषुः / तङि वा / आवधिष्ट / आवधिषाताम् / आवधिषत / आहत / आहसाताम् / आहसत // 13 // (156) एति गा / [ 4 / 2 / 14 / 1 / ] इणिक गा स्यात्, लुङि / अगात् / अगाताम् / अगुः / अध्यगात् / [अध्यगाताम् / अध्यगुः / ] अगायि, [अध्यगायि] ना // (157) सिः / [ 4 / 2 / 14 / 2 / ] सि च स्यादातोर्लुङि। अकार्षीत् / अभोत्सीत् / चित् // (158) नवाऽमोऽसृपो वा / [ 4 / 2 / 14 / 3 / ] न वा अमो यस्य तस्मादसृपो धातोर्लुङि सिज्वा / अस्पार्सीत् / अस्पाक्षीत् / अस्पृक्षत् / इत्यादि / न वामः किम् ? अपाक्षीत् / असृपः किम् ? असापर्सीत् // (159) इष्टलोऽनिड्दृशः स्डः / [ 4 / 2 / 14 / 4 / ] इकारसलन्ताददृशोऽनिटो लुङि सुः स्यात् / अधुक्षत् / अलिक्षत् / इक: किम् ? अधाक्षीत् / दृशः-अद्राक्षीत् / अदर्शत् / सेटः / अकोषीत् // .. . (160) अचि लुक् / [ 4 / 2 / 14 / 5 / ] स्डित्यस्य अ: लुत्स्यादचि / अधुक्ष्याताम् / अधुक्षि / अचि किम् ? अधुक्षात् / अधुक्षाताम् // __ (161 ) दुड्डिहोलिड्गुहोधातुतङ् दन्त्ये / [ 4 / 2 / 14 / 6 / ] दुहादेः परः लुग्वा तङि दन्त्ये / अदुग्ध / अधुक्षत / अदुग्धाः / अधुक्षथाः / अदुग्ध्वम् / अधुक्षध्वम् / अदुह्वहि / अधुक्षावहि /