________________ 328 पञ्चग्रन्थी व्याकरणम् ओदनं भुगध्वं, सक्तून् पिबत, धानाः स्वादत इत्येवं यूयमभ्यवहरथ / एवं भ्राष्ट्रमट मठमट खदूरमटेत्ये यमटति / छन्दोऽधीष्व, व्याकरणमधीष्व, निरुक्तमधीष्वेत्ययमधीत्ये / यद्वा च्छन्दोऽधीध्वमित्येव यूयमधीध्वे चेति / च्छन्दोऽधीते इत्येवायमधीते / यथासङ्ख्यम् // (93) यङः स कर्ता / [ 4 / 2 / 9 / 10 / ] यङोऽर्थे भृशाभीक्ष्ण्यार्थाद् धातोः सर्वकालेषु लोट् नित्यं कर्तरि लोट् च हिस्वौ तयस्भावी च वा स इति यस्तदन्तेन सम्बन्धः स एव धातुस्तत्परस्तत्साधनश्च प्रयोक्तव्यः / लुनीहि लुनीहीत्येवायं लुनाति / यद् वा, लुनीत [लुनीत] इत्येव यूयं लुनीथ / भूते / लुनीहि [लुनीहि] इत्येवायमलावीत् / भविष्यति / लुनीहि [लुनीहि] इत्येवायं लविष्यति / अधीष्व [अधीष्व] इत्येवायमधीते / यद्वा, अधीध्वम् [अधीध्वम्] इत्येव यूयमधीध्वे / सर्वलकारपुरुषवचनेषूदाहार्यम् / तथा, लोलूयत्स्व [लोलूयत्स्व] इत्येवायं लोलू यते / भृशार्थादाभीक्ष्ण्ये लोट् / स कर्तेति वचनात्, छिनत्ति लूयतेऽनेनेत्येतत् / लुनीहि / [लुनीहि] इत्येतत्सम्बद्धं न प्रयुज्यते / विवक्षातः कारकवत् कालोऽपि / योऽयमध्वा गन्तव्य आपाटलिपुत्रात् तत्र कूपोऽस्ति, भविष्यति. भविता, अभृत्, आसीत्, बभूव // (94) तिप्तस्झिसिप्थस्थमिपोऽपि वस्मस् / [ 4 / 2 / 9 / 10 / ] परार्थम् // 9 // तातांझथास आथांध्वम् इवहिमहिङोऽथ लः / त्रयी सुप् युष्मदस्मत्सु मन्याभूतोऽसुबन्यथा / एकवच्चोपहासे तु सुप् चैकादो लुडादिमा // 4 / 2 / 10 // षट्पदी // (94) ल इत्युत्सृ]ष्टानुबन्धलकाराः दश, तिवादयः स्युः तिप् तस् झि 1 / सिप् थस् : थ 2 / मिप् वस् मस् 3 / पित् तत्कार्यार्थः / मिपा जसपीच्छन्दोऽर्थम् / मसोरिति राद्यर्थम् // तथा // (95) तातांझथासाथांध्वमिवहिमहिङोऽथ लः [ // 4 / 2 / 10 / 1 / ] त आताम् अन्त 1 / थास् आथाम् वम् 2 / इ वहि महिङ् 3 / ङित् तिङ्तङर्थः जसथौ च्छन्दोऽर्थम् / (96) त्रयी सुप् युष्मदस्मत्सु / [ 4 / 2 / 10 / 3 / ] एषां त्रयी [त्रयी] नामादिगतौ सत्त्वे वा स्यात् / स पचति / तौ पचतः / ते पचन्ति / एवं, त्वं पचसि / [युवां पचथः / यूयं पचथ / ] अहं पचामि / [आवां पचावः / वयं पचामः / ] तथा तङ्। [पचते पचेते पचन्ते / पचसे पचेथे पचध्वे / पचे पचावहे पचामहे / ] स च त्वं च युवां पचथ / स चाहं चावां पचावः / स च त्वं चाहं च वयं पचामः / नरौ पचेथे / त्वत्कल्पाः पचेथे / मत्तर: मद्रूपः पचे / अतित्वम् अत्यहं च पचते / एवं द्विबहुत्वे / अत्वं त्वं सम्पद्यते / त्वद्भवति / मद्भवति / त्वमिच्छति / त्वयति / [मद्यति / ] त्वद्यते / [मद्यते // ] (97) मन्याद्भूतोऽसुबन्यथा एकवच्चोपहासे तु / [ 4 / 2 / 10 / 3 / ] मन्यतेस्तद्विशिष्ट धातोश्चासुब्विषया मध्यमान्ता त्रयी, अन्यथा व्यत्ययेन मन्यतेयुप्मद्यन्ता धातोरस्मदि मध्यमा एकवच्च स्यात् प्रहासेऽर्थे / एहि मन्ये ओदनं भोक्ष्यसे [इति], न हि भोक्ष्यसे, भुक्तः सोऽतिथिभिः / एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यातस्ते पिता / प्रहासे किम् ? एहि मन्यसे ओदनं भोक्ष्य इति, साधु मन्यसे //