________________ चतुर्थोऽध्यायः द्वितीयः पादः 327 यथार्हशक्ते विधिप्रार्थने सम्प्रश्ने च लोट् यप् समयेऽनुमत्याम् / प्रैष्ये मुहूर्तापरिते लडके स्मे लोडधीष्टे च समुच्चये वा-। ऽलं लोट् स्वहीध्वन्ता:यङ: स कर्ता तिप्तस्झिसिप्थस्थमिपोऽपि वस्मस् // 4 / 2 / 9 // षट्पदी // (84) यथार्हशक्ते / [ 4 / 2 / 9 / 1 / ] अर्हे शक्ते च कर्तरि यप् च लिङेव च स्यात् / ना भारं वहेत् / नाऽसौ वोढव्यः // ___ (85) विधिप्रार्थने सम्प्रश्ने च / [4 / 2 / 9 / 2 / ] कर्तरि लिडेव / विधिनियोगो दृष्टार्थे वा प्रत्याख्याने सप्रत्यवायो निमन्त्रणं, निष्प्रत्यवाय आमन्त्रणं सत्कारपूर्वको न्यक्कारपूर्वको वा / प्रार्थनं याचनमिष्टशंसनं च / सम्प्रश्नः सम्प्रधारणा / स कटं कुर्यात्, यजेत, दद्यात् / इह भवान् भुञ्जीत, आसीत / इह स भुञ्जीत / [कुर्यात्, यजेत, दद्यात् / माणवकं भवानध्यापयेत् / भवन्तमध्येष्यामहे / ग्रामं गच्छेः, कटं कुर्यास्त्वम् / लभेयाहं भिक्षाम् / जीव्याद् भवान् / [सम्प्रश्ने / ] किं भो व्याकरणमधीयीय उत छन्दः ? पृष्टमयदर्थम् // (86) लोट् / [ 4 / 2 / 9 / 3 / ] तथा / सोऽत्रास्ताम् / [सोऽत्र] भुक्ताम् / तं स उपानयताम् / भिक्षां देहि / स जीवतु / किं नु च्छन्दोऽध्ययै ? || (८७).यप् समयेऽनुमत्यां प्रैष्ये / [ 4 / 2 / 9 / 4 / ] प्राप्तकालानुज्ञा प्रैष्येऽर्थे यप् लोट् च / समयोऽवसरः / प्राप्तस्ते कालः कटं कुरु / किमहमधीये ? एवं कुरु / भवानादिष्टः कटं करोतु / भवता कटः कर्तव्यः करणीयः / तस्यावसरः [इत्यर्थः] / समनुज्ञातः प्रेषितः // (88) मुहूर्तापरिते / [ 4 / 2 / 9 / 5 / ] ऊर्ध्वमौहूर्तिकार्थाद् धातोः लिङ्यप्लोटः स्युः समयादौ / प्राप्तस्ते कालोऽनुज्ञातः / असावादिष्टः मुहूर्तस्योपरि कटं कुर्यात्, करोतु / ना स कर्तव्यः // (89) लडङ्के / [ 4 / 2 / 9 / 6 / ] प्रकृतलोटोऽर्थः समयादिः सोऽङ्क्यते लक्ष्यते येन तदर्थाद् धातोः लप्रत्याहारसूत्रोक्तः लट् लृट् लुट् लिङ् च स्यात् / उपाध्यायश्चेदागच्छति, आगमिष्यति, आगन्ता, आगच्छेद् अथ त्वं छन्दोऽधीष्व / तथोपरिमुहूर्तस्यापि / स चेद् आगच्छति, [आगमिष्यति, आगन्ता, आगच्छेद्] अथ त्वं छन्दोऽधीष्व / लिङन्ये // (90) स्मे लोट् / [ 4 / 2 / 9 / 7 / ] तथोपरिमुहूर्तस्य समयः [अनुमतिः, औषः] स तं करोतु स्म / अध्यापयतु स्म // (91) अधीष्टे च / [ 4 / 2 / 9 / 8 / ] ससत्कारव्यापारणे स्मे लोट् स्याद् अनूर्ध्वमौहूतिकेऽपि / अङ्ग स्म तमध्यापय // (92) समुच्चये वाऽलं लोट् स्वहीध्वन्ताः / [ 4 / 2 / 9 / 9 / ] क्रियासमुच्चयार्थाद् धातो: सर्वकालेषु वा लोट्, स च यथाविधि हिस्वौ स्यात् तध्वप्सावी च हिस्वौ वा स्यात् / व्यत्ययश्छन्दोर्थम् / स्वकालप्रत्ययान्तश्च योऽलं समर्थः तत्क्रियासामान्यवाची स प्रयोक्तव्यः / सक्तून् पिब, धानाः खाद, ओदनं भुक्ष्वेत्यायमभ्यवहरतोऽभ्यवहरन्ति / अभ्यवहरसि / अभ्यवहरामि / यद्वा,