________________ 326 पञ्चग्रन्थी व्याकरणम् कथं स तमयाजयिष्यत् / याजयेत् // ___ (75) हेतुफले लुङस्तु / [ 4 / 27 / 9 / ] हेतुफलार्थाद् धातोः लुटोऽर्थे भविष्यति लिङ् वा / दक्षिणेन चेदयान्न शकटं पर्याभवेत् / यदि कमलकमाह्वयेन्न शकटं पर्याभवेत् / दक्षिणयानं हेतुः, अपर्याभवनं फलम् / दक्षिणेन चेद् यास्यति न शकटं पर्याभविष्यति / इह. तु [न] / हनिष्यतीति प्रपलायिष्यते / नोक्तत्वात् / लृट् तथा / केनचिल्लिङ्गेन भविष्यन्ती क्रियातिपत्तिं ज्ञात्वा प्रयुङ्क्ते / [यथा-] अमक्ष्यद् वसुधा तोये च्युतशैलेन्द्रबन्धना / नारायण इव श्रीमन् यदि त्वं नाधरिष्यथाः // 1 // 7 // इच्छासु लोट् तुञ्च समे लटीतो बाढेऽप्युतेऽकच्चिति कामचारे-। ऽलं भावनेऽर्थेऽयदि वा क्रियोक्तौ स्यात् कालवेलासमयैर्यदीति // 4 / 2 / 8 // वृत्तम् // (76) इच्छासु लोट् / [ 4 / 2 / 8 / 1 / ] इच्छार्थे सति धातोर्लिङ् स्यात्, तथा लोट् / ' इच्छामि भुञ्जीत, भुङ्क्तां वा, सः / इच्छन्, करोति / अनभिधानान्न // (77) तुम् च समे / [ 4 / 2 / 8 / 2 / ] समानकर्तृक इच्छार्थे तुम् च लिङ् च स्यात् / इच्छति [भोक्तुम्] / कामयते भोक्तुम् / भुञ्जीय, अधीयीयेतीच्छति // (78) लटीतः / [4 / 2 / 8 / 3 / ] वर्तमाने इत इच्छार्थात् लिङ् लट् च / इच्छति / इच्छेत् / / (79) बाढेऽप्युते / [ 4 / 2 / 8 / 4 / ] सति लिङेव / अपि कुर्यात् / अध्यधीयीत / उत कुर्यात् / [उताधीयीत / ] बाढेऽर्थे किम् ? अपि धास्यति द्वारम् / उत पतिष्यति दण्ड: / प्रच्छादनं प्रश्नश्च गम्यते / इतः क्रियातिपत्तौ भूतभविष्यतो नित्यं लुङ् / अप्यभोक्ष्यत / [उताभोक्ष्यत // ] (80) अकच्चिति कामचारे / [ 94 / 2 / 8 / 5 / ] अर्थे लिङ् / कामो मे .भुञ्जीत भवान् / अकच्चिति किम् ? कच्चिज्जीवति माता ते // (81) अलं भावनेऽर्थे / [ 4 / 2 / 8 / 6 / ] अलमर्थेन तु शब्दे सम्भावने क्रियाशक्ति श्रद्धाने लिङेव / अपि पर्वतं शिरसा भिन्द्यात् / अपि द्रोणपाकं भुञ्जीत / अलमिति किम् ? विदेशस्थायी [स:] प्रायेण गमिष्यति ग्रामम् / अर्थे किम् ? अलं सा तं हनिष्यति / तत्र भोक्ष्यते / अलं लवणेन। लुङ् तथा / अपि पर्वतं शिरसाऽभेत्स्यत् // (82) अयदि वा क्रियोक्तौ / [ 4 / 2 / 87 / ] धातुना सम्भावनोक्तौ लिङेव वा / सम्भावयामि, श्रद्दधे, अवकल्पयामि, भुञ्जीत भोक्ष्यते वा सः / अयदि किम् ? सम्भावयामि यद् भोक्ष्यते भवान् // (83) स्यात् कालवेलासमयैर्यदीति / [ 4 / 2 / 8 / 8 / ] कालादियोगे यदि सति लिडेव / कालो यद् भुञ्जीत सः // 8 //