________________ चतुर्थोऽध्यायः द्वितीयः पादः 325 संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे, अध्येतास्महे || (65) चित्रे / [ 4 / 2 / 6 / 8 / ] आश्चर्यगत्युक्त्योः लृट् नान्यो लः / आश्चर्यमद्भुतम् / अन्धो नाम पर्वतमारोक्ष्यति / बधिरो [नाम] व्याकरणमध्येष्यते // (66) अश्राद्धात् क्रुधोः किंकिलभूषु / [ 4 / 2 / 6 / 9 / ] सत्स्वेषु अश्रद्धाक्रोधार्थे लडेव / किंकिल [नाम तत्रभवान्] स तं [वृषलं] तत्र याजयिष्यति / भूषु अस्त्यार्थेषु / विद्यते, अस्ति नाम स तं तत्र याजयिष्यति / न श्रद्दधे, नावकल्पयामि, न मर्षयामि, न क्षमे इत्यर्थः] || (67) जातौ / [ 4 / 2 / 6 / 10 / ] परार्थम् // 6 // लिङ् यद्यद्यदस्तौ कथमक्षिपा वा किम्येषु लिट् स्याद् यदि यच्च यत्रे / आशंसने लुङ् च लिङोऽतिपातौ प्राग्वा गते हेतुफले लुडस्तु // 4 / 27 // वृत्तम् // (67) लिङ् यद्यद्यदः / [ 4 / 27 / 1 / ] जातुयद्यदासु सत्सु च लिङ् तथा / जातु तत्रासौ वृषलं याजयेत् / [यत् तत्रासौ वृषलं याजयेत् / यदि तत्रासौ वृषलं याजयेत् / ] न श्रद्दधे / [नावकल्पामि / न मर्पयामि / न क्षमे / ] क्रियातिपत्तौ भूते लुङ् वा / भविष्यति तु नित्यम् / यत् तत्र स तं याजयिष्यात् / [यदि तत्र स तं याजयिष्यात् / यदि तत्र स तं याजयिष्यात् / न श्रद्धधे / [नावकल्पामि / न मर्पयामि / न क्षमे // ] (68) तौ / [ 4 / 2 / 7 / 2 / ] ट्लिङावेवाश्रद्धाक्रुधोः / न श्रद्दधे [नावकल्पामि, न मर्षयामि, न क्षमे] तत्रासौ तं याजयिष्यति / याजयेत् // (69) कथमक्षिपा वा / [4 / 27 / 3 / ] कथमि सति क्षेपेऽर्थे तावेव वा / कथं स तं याजयिष्यति / [याजयेत्] वा / कथं याजयति / याजयिता / अयीयजत् / अयायजत् / याजयाञ्चकार / तथा लुङ् / कथं स तमयाजयिष्यत् // .. (70) किमि / [4 / 27 / 4 / ] सति तावेव क्षेपे नित्यम् / को नाम कतरो [नाम] कतमो वा वृषलोऽयं तत्रासौ याजयिष्यति, याजयेत् / लृट् तथा // . (71) एषु लिट् स्याद् यदि यच्च यत्रे / [ 4 / 27 / 5 / ] एषु चित्राद्यर्थेषु यद्यादौ सति लिङ् वा / चित्रं यदि सोऽधीयीय, यदि स तं याजयेत् / न श्रद्दधे / [नावकल्पयामि / न मर्षये। न क्षमे / ] यच्च तत्र स तं याजयेत् / यत्र वा [तत्र स तं याजयेत्] गर्हामहे / लृट् तथा // (72) आशंसने / [ 4 / 2 / 7 / 6 / ] सत्यर्थे च लिङ् / स चेदागच्छेद् आशंसे युक्तोऽधीयीः॥ - (73) लुङ् च लिङोऽतिपातौ / [ 4 / 27 / 7 / ] कुतश्चिद् वैगुण्यात् क्रियानभिनिवृत्ती मत्यां लिङ: स्थाने लिनिमित्ते लुङ् स्यात् / दक्षिणेन चेदयास्यन्न शकटं पर्यभविष्यत् / अभोक्ष्यत च भवान् घृतेन यदि मत्समीप अश्लिष्यात् / भविष्यद्विषयमिदम् // (74) प्राग्वा गते / [ 4 / 2 / 7 / 8 / ] प्राग् अतः सूत्रालिङोत्पत्तौ गते भूतेऽर्थे लुडेव वा /