________________ 324 पञ्चग्रन्थी व्याकरणम् अध्यापयिष्यति वा / सामीप्ये / इयं पौर्णमास्यतिक्रान्ताऽस्यां सोऽग्निनाधित, सोमनायष्टा, गामदित / येयममावास्याऽऽगामिनी तस्यां सोऽग्निनाधास्यति, सोमेन यक्ष्यति, गां दास्यति // (56) यावत्पुरोः / [4 / 257 / ] सतो: भावो भविष्यति काले लेट् प्रकृतः स्यात् / यावद्भुङ्क्ते / पुरा भुङ्क्ते / निपातने किम् ? यावद् दास्यते तावद् भोक्ष्यते / गम्याधुणादौ // (57) कर्हिकदोश्च भाव्ये / [ 4 / 2 / 5 / 8 / ] तथा च / वाऽनुकर्षे / कर्हि भुङ्क्ते ? लुट् लुट् च / [कर्हि भोक्ष्यते ? कहि भोक्ता ?] कदा भुङ्क्ते ? कदा भोक्ष्यते ? कदा भोक्ता ? // 5 // किं लिप्स्यजे व्यद्यतनोपहासे लुट् लृट् त्वरार्थाशिषि सीम्नि चार्वाक् / . कालेऽनिशाह्नोः पर वाऽनु चित्रेऽश्राद्धात् क्रुधोः किंकिलभूषु जातौ // 4 / 26 // वृत्तम् // (58) किं लिप्स्यजे / [4 / 2 / 6 / 1 / ] प्रत्येकं डि: किंवृत्ते लिप्स्यमानेऽर्थे भाव्ये लड् वा / को भवतां भिक्षां ददाति, दास्यति वा, दाता वा / एवं कतरो [भवतां भिक्षां ददाति, दास्यति, दाता वा 1] कतमो [भवतां भिक्षां ददाति, दास्यति, दाता वा / ] पुनरावृत्त्या लिप्स्याजे लिप्स्यमानाज्ज्ञाते परलोकसिद्धौ प्रकाश्यायां च / यो भवतां भिक्षां ददाति, दास्यति दाता वा स स्वर्गलोकं याति, यास्यति, याता वा / व्यवस्थायां धातोऽभाव्येऽपि / योऽदात् सोऽगमद् इति च // (59) व्यद्यतनोपहासे लुट् / [ 4 / 2 / 6 / 2 / ] विगताद्यतने भविष्यत्युपहासेऽर्थे च सामान्ये लुट् स्यात् / कर्ता श्वः / भोक्ता [श्वः / ] वि किम् ? अद्य श्वो वा करिष्यति / उपहासेऽप्यशक्तौ / वा याचः / कदायं गन्ता य एवं पादौ निदधाति ? कदाध्येता य एवमनभियुक्तः // (60) लृट् / [ 4 / 2 / 6 / 4 / ] स्यात् सामान्ये भविष्यति // (61) त्वरार्थाशिषि / [ 4 / 2 / 6 / 4 / ] त्वरार्थे शंसामत्यागतौ लुट् / स चेत् क्षिप्रमागमिष्यति क्षिप्रमध्येष्यामहे / एवमाशु, शीघ्रं वा // (62) सीम्नि चार्वाक् / [ 4 / 2 / 6 / 5 / ] सीम्नि सति अर्वागभागवगतौ लृट् स्यात्, न लुट् / योऽयमध्वा गन्तव्य आपाटलिपुत्रात् तस्य यदवरं कौशाम्ब्यास्तत्र द्विरोदनं भोक्ष्यामहे / तत्र सक्तून् पास्यामः / अर्वाक् किम् ? तथा परस्मिन् / [योऽयम वा गन्तव्य आपाटलिपुत्रात् तस्य यत्परं कौशाम्ब्यास्तत्र द्विरोदनं] भोक्तास्महे / सक्तून् पातास्मः / सीम्नि किम् ? निरवधिकञ्चेद् गन्तव्योऽध्वा तदा लुट् / भविष्यति किम् ? योऽध्वागत तथा [आपाटलिपुत्रात् तस्य यदवरं] तत्र युक्ता अध्यैमहि, [तत्र द्विरोदनमभुमहि / तत्र] सक्तून् पिबामः // (63) कालेऽनिशानोः / [ 4 / 2 / 6 / 6 / ] अहोरात्रवर्जिते कालवाचि सीम्नि तत् तथा / योऽयं संवत्सर आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे / अर्वाक् किम् ? परस्मिन् लुट् / सीम्नि किम् ? निरवधिककाले तथा लुट् / भविष्यति किम् ? गते संवत्सरादौ तथा / अभुज्महि / अनिशाहोः किम् ? योऽयं मासस्त्रिंशदात्रो वागामी तस्य योऽवरोऽर्धमासः / पञ्चदशरात्रो वा तत्र युक्ता अध्येतास्महे / [तत्र सक्तून् पातास्मः / ] पृथगुत्तरार्थम् // (64) पर वाऽनु / [ 4 / 2 / 6 / 7 / ] डिलोपात् परस्मिन् भागे तथा च लुट् / योऽयं