________________ चतुर्थोऽध्यायः द्वितीयः पादः 323 (47) हशश्वचि / [ 4 / 2 / 4 / 15 / ] उपपदे धातोः परोक्षे लङ [लि]ट् चेति वा / इति हाकरोत् / इति ह चकार / एवं, [शश्वदकरोत् / शश्वच्चकार / ] परत्वालुङ् च स्मृत्युक्तौ / स्मरसि भो कश्मीरेषु शश्वदवसाम ? || __ (48) प्रश्न उ लङ् निकटे / [ 4 / 2 / 4 / 16 / ] भूतानद्यतने परोक्षे निकटे आसन्ने काले पञ्चाब्दमध्येऽर्थे प्रश्ने लङ् स्यात् / उ निपातः / न च / अगच्छत् स तं, जगाम वा / अयजत / इयाज़ वा / कश्चित् किञ्चित् गच्छति / प्रश्ने किम् ? जगाम शतम् / निकटे किम् ? जघान कंसं वासुदेवः // (49) पुरि लुङ् च तुः / [ 4 / 2 / 4 / 17 / ] पुराशब्दे सति तत्परोक्षे लुङ् वा स्यात् / अवात्सुरिह पुरा च्छात्राः / एवं अवसन्, उषुः वसन्ति // 4 // लट् स्मे च नन्वोरपि चोत्तरे (ननौ) क्षेपे कथं जात्वपि वर्तमाने / तद्भूतवद् वा निकटे मते प्राक् यावत्पुरोः कर्हिकदोश्च भाव्ये // 4 // 25 // वृत्तम् // (50) लट् स्मे च / [ 4 / 2 / 5 / 1 / ] पुरि च भूतानद्यतने / एवं स्म पिता ब्रवीति / शश्वत् पुराऽधीते / ह च परत्वाल्लडि च // (51) नन्वोरपि चोत्तरे (ननौ) / 4 / 25 / ] नन्वोः पृष्ठप्रतिवचने भूतसामान्ये लड् वापि शब्दात् शतृशानौ च / अकार्षीः कटं त्वम् ? न करोमि / नु करोमि भोः / नाकार्षं भोः / [न्वकार्ष भोः / ] न कुर्वन्तं, [नु कुर्वन्तं] पश्य माम् / अत्र ननौ तथा नित्यं लट् / अकार्षीः कटं वत्स ? ननु करोमि / ननु कुर्वन्तं मां पश्य // (52) क्षेपे कथं जात्वपि / [4 / 25 / 3 / ] क्षेपेऽर्थे सत्स्वेषु च सर्वकाले लट् / कथं नाम स तत्र वृषलं याजयति / एवं जातु [स तत्र वृषलं याजयति / ] अपि [तत्र स वृषलं . : याजयति / ] गर्हामहेऽन्याय्यमेतद् [इत्यर्थः] // (53) वर्तमाने / [ 4 / 2 / 5 / 4 / ] प्रारब्धापरिसमाप्ते च काले लट् / पचति / प्रासादं करोति / तिष्ठन्ति पर्वताः // . (54) तद्भूतवद् वा निकटे मते / [4 / 25 / 5 / ] तदिति [वर्त-]मानवद् वा प्रत्ययाः स्युः / वर्तमानसामीप्ये भूते भविष्यति च, मते वाञ्छिते आशंसायामर्थे भूतवच्च प्रत्ययाः स्युः / कदाऽऽगतोऽसि ? एष आगच्छामि, आगमं वा / कदा गमिष्यसि ? एष गच्छामि, गमिष्यामि, गन्ता वा / वदिति ये यथा तथैव ते / पचमानः / अलङ्करिष्णुः / भूतवच्च / उपाध्यायश्चेदागच्छति युक्ता अधीमहे / एवम्, आगतोऽधीतमेतत् / आगमत् [चेत्] अध्यगीष्महि / लटिलटौ न स्तः / वाशब्दाद्, आगमिष्यति [चेद्] अध्येष्यामहे / आगन्ता [चेद्] अध्येतास्महे // (55) प्राक् / [4 / 25 / 6 / ] निकटक्रियायाः क्रियान्तरे, तस्यात्येकस्य च कालान्तरे, तत्सामीप्ये विवक्षिते, प्रागिति प्राग्विहित औत्सर्गिक: सामान्यप्रत्ययो भूतभविष्यतोः स्यात् न लङ्लुटावित्यर्थः / यावज्जीवं भृशमन्नमदात् दास्यति वा / [यावज्जीवम्] अध्यापिपत्