________________ 322 पञ्चग्रन्थी व्याकरणम् उपाश्रौसीत् / उपशुश्राव / उपाशृणोत् // (36) अनद्यतने / [4 / 2 / 4 / 4 / ] भूते लङ् / अकरोत् / बहुव्रीहिः किम् ? अद्य ह्यो वाऽभुक्ष्महि // (37) स्मरणेऽयदि लृट् / [ 4 / 2 / 4 / 5 / ] स्मरसि चेतयसि वत्स मगधेषु वत्स्यामः / अयदि किम् ? बुद्ध्याम यत् कश्मीरेष्ववसाम ? | (38) कृषि वा / [ 4 / 2 / 4 / 6 / ] क्रियान्तराकाङ्क्षायां सत्यां, तथा चायदि च / स्मरसि वत्स कश्मीरेषु वत्स्यामः, तत्रौदनं भोक्ष्यामहे / तथा, अवसाम, अभुमहि वा / यदि च / [अभिजानासि वत्स यत् कश्मीरेषु वत्स्यामः, यत् तत्रौदनं भोक्ष्यामहे // (39) अविदिते लिट् / [ 4 / 2 / 4 / 7 / ] परोक्षे क्रियासाधनेऽर्थे वा प्रयोक्तुः प्रतिपत्तुर्वा भूतानद्यतने लिट् / चकार / सुप्तोऽहं लि विललाप / चित्तविक्षेपात् क्रियापरोक्षार्थे / [दक्षिणापथेषु / स्थितोऽसि ?] नाहं दक्षिणापथं प्रविवेश // (40) अपह्नवे / [4 / 2 / 4 / 8 / ] क्रियायास्तथा / भवता कलिङ्गेषु बाह्मणो हतः ? स आह / कः कलिङ्गान् जगाम ? नाहं कलिङ्गान् जगाम / दूरतो ब्राह्मणवधः // (41) आस्दयकासयद्व्याय च आस्क्रमिभू लिट् / [4 / 2 / 4 / 9 / ] तथा आसादनेराम् स्यात्, तदनु कृ अस् भू लिट् च प्रयुज्यते / आसाञ्चके / [दयाञ्चक्रे / ] कासामास / अयाम्बभूव / द्व्यादच् लघुश्रुतिश्च / चिकीर्षाञ्चकार / जगारा[ञ्चकार] / चकासाञ्चक्रे // (42) अनृच्छ इजादिगुरोः / [ 4 / 2 / 4 / 10 / ] इजादिगुरुय॑स्य तस्मात् तथा / ईहाञ्चक्रे / ऊहाञ्चके / इजादि किम् ? ततक्ष / गुरुः किम् ? इयेष / उरुच्छवर्जात् किम् ? प्रोणुनाव / आनर्छ / (43) न च जाग्रुषः / [4 / 2 / 4 / 11 / ] तत्तथा स्यात् / न चार्थेऽद् वा / जागराञ्चकार / जजागार / ओषाञ्चक्रे / उवोष // . (44) भीभृहुही च विदां सिपि / [4 / 2 / 4 / 12 / ] तथा वा गदि स्यात् / तत्रामि भीभृहुही चैते तिपीडितिपीचसिपि द्वित्वप्रागित्वादि स्यादित्यर्थः / बिभराञ्चकार / बभार / एवं, [बिभयाञ्चकार / बिभाय / जुहवाञ्चकार / जुहाव / जिहयाञ्चकार / जिहाय // ] विदामिति / तथा आम्यनैङ्वा / विदाञ्चकार / विवेद // (45) लोटि कृ लोट् / [ 4 / 2 / 4 / 13 / ] लोटि विषयस्थे विदां वा रि निपात्यते / कृ लोट् चानुप्रयुज्यते / विदाङ्करोतु / विदाङ्कुरुत / वेत्तु / वित्ताम् // (46) जनवित्त [ गर्थे / 4 / 2 / 4 / 14 / ] जिगर्हपरौ डिलङावत्रापि परोक्षे लोकविज्ञाते दृगहें प्रयोक्तुदर्शनविषये लङ् वा / अरुणद् यवनः साकेतम् / परोक्षे किम् ? असौत्सीन्न तम् / जनवित्ते किम् ? जगा[म] गाशतम् / दृगहे किम् ? जघान कंसं किल वासुदेवः //