________________ [ // अथ चतुर्थाध्याये द्वितीयः पादः / ] [आदितश्चतुर्दशः पादः / ] ई हल्यदो वा भिय इद्दरिद्रो हाकश्च हौ वात् पिति चौदुदद्वेः / वोर्णोश्च नालीन्तृणहः स्सिलुक् तौ कल्हस्वतः थास्त उ वा तनादेः // 4 / 2 / 1 // वृत्तम् // (1) ई हल्यदः / [ 4 / 2 / 1 / 1 / ] श्नाज्झ आदीत् स्यात्, दासंज्ञावर्जितः लोऽश्लेऽपिति / क्रीणीतः / लुनीहि / मिमीते / जिहीते / हलि किम् / लुनते मिमते / अदः किम् ? दत्ते / धत्ते / अपि[ति] किम् ? क्रीणाति / जहाति // ___ (2) वा भिय इत् (4 / 2 / 1 / 2 / ] तथाऽन्तः / बिभितः / बिभीतः / [बिभिथः / बिभीथः / ] हलि किम् ? बिभ्यति / पिति, बिभेति // . (3) दरिद्रः / [ 4 / 2 / 1 / 3 / ] नित्यम् // दरिद्रितः / दरिद्रिहि / हलि किम् ? दरिद्रति / पिति, दरिद्राति // (4) हाकश्च / [ 4 / 2 / 1 / 4 / ] तथा इड् वा / जहितः / जहीतः // . (5) हौ वाऽऽत् / [4 / 2 / 15 / ] हाको हौ परे आदिच्च वा स्तः / जहाहि / जहिहि / जहीहि // (6) पिति चौदुदद्वेः / [ 4 / 2 / 1 / 6 / ] अद्विरुक्तस्य धातोरुदौत् लोऽश्ले हलि पिति / यौति / रौमि / पिति किम् ? युतः / अद्वे किम् ? रारौति / उत् किम् ? एति / हल् किम् ? यवानि // . () वोर्णोश्च / [ 4 / 2 / 17 / ] तथा / प्रार्णोति / प्रोौति / पिति किम् / प्रोणुतः / हलि किम् ? प्रोर्णवानि // (8) नालि / [ 4 / 2 / 18 / ] तथाऽल्मात्रे / प्रौर्णोत् / प्रौर्णोः // (9) इन्तृणहः / [4 / 2 / 1 / 9 / ] तथेमागम: स्यात् / तृणेढि / तृणेक्षि / तृणेसि / अतृणेट् / पिति किम् ? तृण्डः / हलि किम् ? तृणहानि / अल् न वर्तते / (10) स्मिल्लुक् तौ झल्हस्वतः / [ 4 / 2 / 1 / 10 / ] आभ्यां स्सिल्लुक् स्यात् तौ तवर्यादौ / अभिन्त / अभिन्तम् / अभिद्ध्वम् / अकृत / अकृथाः / अकृड्ढ्वम् / झल्हूस्वात् किम् ? अमंस्त / अचेष्टाम् / सादि किम् ? अवादिष्ट / तौ किम् ? अभैत्सीत् //