________________ 318 पञ्चग्रन्थी व्याकरणम् किम् ? जुहवानि / अयानि / लो श्ले किम् ? जुहुवतुः / ईयतुः / आयडिति परत्वादारैच् // (208) कुकृञ् तथा / [ 4 / 1 / 23 / 16 / ] लो श्लेऽपिति / कुरुतः / कुर्वन्ति / अपिति किम् ? करोति / (209) श्नासदित् / [4 / 1 / 23 / 17 / ] श्नम अस्तेरत् लो श्लेऽपिति / रुन्धः / रुन्धन्ति / रुन्धन् / स्तः / सन्ति / सन् / अत् किम् ? आसन् / (210) श्नात् स आत् / [4 / 1 / 23 / 18 / ] श्ना इत्यस्य अद्भूको यस्मात्, तस्य चादित् , स्यात् , लो श्लेऽपिति / क्रीणन्ति / क्रीणन् / जहति / ददुः / दधुः / दत्तः / धत्तः। : ददत् / दधत् / यङ्लुक् / पायति / पायन् / अपि किम् ? प्रीणाति / ददाति // अष्टपाच्छन्दोजातिः / पाद एष त्रयोदशः // 23 // // 13 // (इति श्रीबुद्धिसागराचार्यकृतपञ्चग्रन्थ्यां संस्कृताधिकारे चतुर्थाध्याये प्रथमः, आदितो वा त्रयोदशः, पाद: / ]