________________ चतुर्थोऽध्यायः प्रथमः पादः 317 (193) रजेौँ / [4 / 1 / 23 / 1 / ] निनिर्देशाद् रञ्जः णौ परे नित् स्यात् / रजयति मृगान् / मृगाप्ये किम् ? रञ्जयति वस्त्रम् / णौ किम् ? ररजे मृगान् // (194) दंशिस्वञ्जिसञ्जेश्च शिति / [4 / 1 / 23 / 2 / ] दंश्यादेः रञ्जुश्च शिति नित् स्यात् / दशति / दशन् / परिष्वजे / परिष्वजमानः / सजति / सजन् // (195) ओत् / (4 / 1 / 23 / 3 / ] शिति लुक् स्यात् / दो-द्यति / सो-स्यति भवतीति प्रायोगिकत्वान्न स्यात् // (196) इषो यङ्गमश्छः / [4 / 1 / 23 / 4 / ] एषां च्छोऽन्तः स्यात् / इच्छति / यच्छति / गच्छति // ___(197) जनज्ञा च जा / [ 4 / 1 / 23 / 5 / ] सिति स्यात् / जायते / जायमानः / जानाति / जानन् / (198) पा पिबो ध्मा धमो म्ना मनः / [4 / 1 / 23 / 6 / ] तथा स्यात् / पिबति / [धमति / मनति] // (199) दाण्दृशौ यच्छपश्यौ / [4 / 1 / 23 / 7 / ] स्तः / यच्छति / [पश्यति / ] ( 200 ) शीजिघ्र शद्मा / [ 4 / 1 / 23 / 8 / ] स्तः / शय्या / शीयते / जिघ्रति // (201) सदि स्था च सीत्तिष्ठ / [4 / 1 / 23 / 9 / ] स्तः / सीदति / [तिष्ठति // ] (202) दीर्घोऽक्क्ल माचंष्ठिवश्च / [4 / 1 / 23 / 10 / ] शित्येषां दीर्घोऽक् स्यात् / क्लाम्यति / क्लामति / आचामति / आत् किम् ? चमति / विचमति / निष्ठीवति // (203) अतङाने क्रमः / [4 / 123 / 11 / ] तथा / कामति / कामन् / अतङाने किम् ? क्रमते // - (204) श्ये शमाम् / [4 / 123 / 12 / ] शमाद्यष्टानां श्येऽग्दीर्घः स्यात् / शाम्यति / [ताम्यति / दाम्यति / श्राम्यति / भ्राम्यति / क्षाम्यति / क्लाम्यति / माद्यति / ] अष्टानामेव [किम् ?] अस्यति / श्ये किम् ? भ्रमन्ति // (205) हुस्व पुच् / [4 / 1 / 23 / 13 / ] पुच् प्रत्याहारः / प्वादीनां शिति इस्वोऽच् स्यात् / पुनाति / लुनाति / [स्तृणाति / धुनाति / वृणाति / शृणाति / मृणाति / पृणाति / बृणाति / भृणाति / दृणाति / तृणाति / नृणाति / ऋणाति / रिणाति / लिनाति / ] इत्यादि // ___ (206) छुर्कुरः / [ 4 / 1 / 23 / 14 / ] अक् हुस्वः स्यात् / छुर्यात् / कुर्यात् / कुर्वन् / उर्वीग्घलि दीर्घः / [गी: / धूः / पू: / आस्तीर्णम् / विशीर्णम् / अवगूर्णम् // ] ' (207) अचि ह्विणो व्योऽपि / [4 / 1 / 23 / 15 / ] हू इ लौव्यः स्याद् वा श्लेऽपीत्यजादौ परे / जुह्वति / जुह्वत् / यन्ति / यन् / अचि किम् ? जुहुतः / इतः / अपि