________________ 320 पञ्चग्रन्थी व्याकरणम् (11) थास्त उ वा तनादेः / [ 4 / 2 / 1 / 11 / ] तनादे: पर: सिल्लुग्वा स्यात् थासि ते च / अतथाः / अतिनिष्ठाः / अततः / [अतनिष्ट / ] असाथाः / [असनिष्ठाः / असात / असनिष्ट / ] थास्वत्ते किम् ? अतनिष्ट यूयम् / उ निपातः // 1 // घ्राधेशाच्छासोऽतङ्लुक् स्थेण्दाभूपः धीटयंशात् सावारेजश्वेः / स्यज्झल्हल्प्राचः बड्यद्वोर्णोर्हल्यम्येदिद् विद्युन्माला // 4 / 2 / 2 // (12) घ्राधेशाच्छासोऽतङ्लुक् / [ 4 / 2 / 2 / 1 / ] लुग्वाऽतः स्यात् तङि परे / अघ्रात् / अघ्रासीत् / एवं, [अदात् / अदासीत् / अशात् / अशासीत्, अच्छात् / अच्छासीत् / असात् / असासीत् / ] अतधु किम् ? अघ्रासातां सुमनसो ना // (13) स्थेण्दाभूपः / [4 / 2 / 2 / 21] तन्नित्यम् / अस्थात् / अगात् / इण् किम् ? अगासीन्नटः / दासंज्ञः / अदात् / अधात् / अभूत् / अपात् / भूवत् पा किम् ? अपांसीत् नृपः . . प्रजाः / अतङि किम् ? अघ्रासातां मातरौ वत्सेन // (14) धि / [ 4 / 2 / 2 / 3 / ] धादौ सिलुक् / अलविढ्वम् / अलविध्वम् / व्यत्ययाद् ध्वम् / (15) ईटयंशात् / [ 4 / 2 / 2 / 4 / ] ईटि तथांशाद् इटश्च / अलावीत् / अग्रहीः / ईटि किम् ? अलाविषुः / अंशात् किम् ? अकार्षीत् // (16) सावारेजश्वेः / [ 4 / 2 / 25 / ] सावतङि परेऽश्वेरिङान्तस्याऽऽर् . एच् स्यात् अकार्षीत् / अनैषीत् / अलावीत् / श्वेः / अश्वयीत् / तङि / अच्योष्ट // (17) स्यज्झल् / [ 4 / 2 / 2 / 6 / ] सि सादौ सो हलन्तस्याजारैच् स्यात् / अपाक्षीत् / अताप्सीत् / अभैत्सीत् / अरौत्सीत् / अराङ्क्षीत् / सि किम् ? अपावीत् / आकार्षीत् / तङि / अभित्साताम् // (18) हल्प्राचः र्लीङ्यत् / [ 4 / 2 / 27 / ] हलादेर्धातोरदारैच् स्याद् रे ले च परे इडादौ सौ, अतङि परे / अक्षारीत् / अह्वालीत् / लि किम् ? अश्वल्लीत् / अबधीत् // (19) वोर्णोः / [ 4 / 2 / 2 / 8 / ] तथा / प्रोर्णावीत् / प्रोर्णवीत् // (20) हल्यहयेदित् / [ 4 / 2 / 2 / 9 / ] परस्य क्षणश्वसः हलादेर्धातोर्हलि इसौ अतङि परेऽद् वाऽऽरैच् स्याद् अहयेदिदादेः / अक्षाणीत् / अक्षणीत् / अरणीत् / [अराणीत् / ] हलि किम् ? अतक्षीत् / अयंसीत् / अहमययदिदन्तक्षणश्वसः किम् ? अग्रहीत् / अ / अस्यमीत् / अव्ययीत् / रोगः / अरगीत् / अक्षणीत् / अश्वसीत् / अत् किम् ? अदेवीत् / हल्प्राचः किम् ? मा भवानटीत् // 2 // क्षणश्वसो वव्रज इट् तङि स्थादे जो यमः सूचन उब्विवाहे / सीप्स्योर्गमो वा च हलुः सि नारेङ् भूस्वोलि मास्म लुकु लुट् च माङि // 4 / 2 / 3 // वृत्तम् //