________________ 314 पञ्चग्रन्थी व्याकरणम् पक्तये, पचनाय व्रजति // (161) ते धातुयोगे / [4 / 1 / 19 // 4 / ] धात्वर्थानां योगे विशेष्यविशेषणभावे सति ते यथाकालोक्ता अपि प्रत्ययाः साधवः स्युः / अग्निष्टोमयाज्यस्य पुत्रो भविता / कृतः कट: श्वो भविता / भाविकृत्यमासीत् / भूतकालादि भविष्यतिकारादिना सम्बध्यमानः साधुः स्यात् / विशेषणं विशेष्यकालमेवानुरुध्यते तेन प्रत्ययः / त इति प्रत्ययाः / अतस्तद्धिताश्च धातुसम्बन्धे कालभेदे स्युः / गोमानासीत्, भविता वा // __ (162) नृनपोरतुल्यः / [4 / 1 / 19 / 6 / ] अस्त्रियो विहितोऽसमानरूपोऽपवादप्रत्ययः बहुलं स्यात् / विक्षेपकः / विक्षेप्ता / विक्षिपः / अतुल्यः किम् ? आप्यादण् सुपः / प्रायातः कण्वगोदः / नानुबन्धकृतमसारूप्यम् / अस्त्रियां किम् ? स्त्रियां क्तिन् / पर अः बाधक एव / चिकीर्षा // ( 163) जोऽतृ / [4 / 1 / 19 / 7 / ] जृषोऽतृ स्यात् / जरत् / जरती // .. (164) त्स्वपोः शानशतृ / [4 / 1 / 19 / 8 / ] त्सौ सम्बोधनेऽपीत्यप्रथमासमानाधिकरणे च धातोः शानशतृ एतौ स्तः / हे पचन् / हे पचमान / पचन्तं पश्य / [पचमानं पश्य / ] पचति निधेहि / अपि किम् ? स पचति / प्रथमासमानाधिकरणेऽपि / सन् विद्यमानः / जुह्वत् / अधीयानः / बहुलत्वात् // (165 ) क्रियायाः / [4 / 1 / 19 / 9 / ] परार्थः // 19 // हेत्वङ्कयोर्बिट्सुअमित्रपत्योर्धारीङकृच्छेऽर्हशतृस्तुतौ (तु) शानः / (पूडो यजः) शक्तिवयः स्वभावे आसीन आने मुगतः स्वलृट् तौ // 4 / 1 / 20 // वृत्तम् // (165) हेत्वङ्कयोः / [ 4 / 1 / 20 / 1 / ] क्रियायाः जनकलक्षणवृत्तेर्धातोस्तौ स्तः / अर्जयन् वसति / अधीयान आस्ते / अङ्के / शयाना भुञ्जते यवनाः / तिष्ठन्तोऽनुशासति गणकाः / हेत्वङ्कयो किम् ? पचति, पठति च / क्रियायाः किम् ? द्रव्यगुणयोर्मा भूत् / यः कम्पते सोऽश्वत्थः / यदुत्प्लवते तल्लघु // (166) दिवट्सुञमित्रपत्योः / [4 / 1 / 20 / 2 / ] क्रमेणातः अमित्रे स्वामिनि पर: शतृ स्यात् / द्विषन् / सुन्वन्तो यजमानाः सत्रिण उच्यन्ते / अमित्रपत्योः किम् ? देष्टि पति भार्या / याजकेषु न / यज्ञसंयोगे एव / सुनोति सुराम् // (167) धारीङकृच्छ्रे / [4 / 1 / 20 / 3 / ] सुखसाध्ये धात्वर्थे ऽतः शतृ / धारयन्नुपनिषदम् / अधीयन् पारायणम् / अकृच्छ्रे किम् ? कृच्छेण धारयति, अधीते // (168) अर्हशतृ स्तुतौ (तु) / [4 / 1 / 20 / 4 / ] तथा / अर्हन् स विद्याम् / अर्हन् भवान् पूजाम् / स्तुतो प्रशंसायां किम् ? अर्हति चौरो बन्धम् // (169) शानः (पूडो यजः) / [ 4 / 1 / 20 / 5 / ] स्यात् / पवमानः सोमम् / यजमानः / /