________________ चतुर्थोऽध्यायः प्रथमः पादः 313 किम् ? ब्राह्मणं दृष्ट्वा भोजयति / एवं, चर्मपूरमास्तृणाति / उदरपूरं भुङ्क्ते / विदिति पूरे रू इल्लुक् च / वृष्टिंप्रमाणेऽर्थे / गोष्पदपूरं, [गोष्पदपं] वृष्टः / सीताप्रे, [सीतापूरं वृष्टः] मूषिकाबिलपूर, [मूषिकाबिलप्र]तरम् / एवं [मूषिकाबिलप्र] तमं [वृष्टः] / वसनार्थात् क्नोपेः / वस्त्रक्नोपं, चेलक्नोपं वृष्टः // 4 // शुष्कादेः पिषः / इतः सधातुरप्रबुध्यते / शुष्कपेषं पिनष्टि / [चूर्णपेषं पिनष्टि / रूक्षपेषं पिनष्टिः / ] एवं, जीवग्राहं गृह्णाति / एवम्, अकृतकारं करोति / समूलघातं हन्ति / निर्मूलकाषं कषति / समूलकापं कषति / इवार्थाच्च कर्तुः / कर्तृश्चाप्याच्च धातोस्तथा उपमानेऽर्थे / अज इव नष्टः, अजनाशं नष्टः / घृतविघायं, रत्ननिधायं वा निहितः / ऊर्ध्वपूरं पूर्यते / ऊर्ध्वशोषं शुष्यते / ऊर्ध्वं पूर्यते, शुष्यति चेत्यर्थः / पुरुषवाहं वहति / जीवनाशं नष्टः / करणाद् हन्तेः / पाणिघातं वेदि हन्ति / पादघातं भूमिं हन्ति / ताभ्यां हन्ति [इत्यर्थः] / स्नेहात् करणात् पिषः / उदपेषं पिनष्टि / एवं, करग्राहं गृह्णाति / हस्तवर्तं वर्तयति / स्वार्थादात्मीयधनज्ञातिवचनात् करणात् पुषेः / गोपोषम् / महिषीपोषम् / धनपोषम् / रैपोषम् / पितृपोषम् / मातृपोषं पुष्णाति / डिर्बन्ध् / आधाराद् बन्धः / चक्रबन्धं बद्धः / चक्र बद्ध इत्यर्थः / नाम्नि च बन्धः / क्रौञ्चबन्धं बद्धः / चण्डालिकाबन्धं बद्धः / अट्टालिकावन्धं बदः / मयूरिकाबन्धं बद्धः / बन्धविशेषसंज्ञा / वृद् गणान्ते // 5 // (156) नो यद्यधातौ तु / [ 4 / 1 / 18 / 9 / ] यच्छब्दप्रयोगे धात्वन्तरानाकाङ्क्षायां स्वादिः क्त्वाणमौ न स्तः / यदयं भुङ्क्ते ततो व्रजति / अधातौ किम् ? यदयं भुक्त्वा व्रजति, अधीते : ततः परम् / (157) तुमस्ति कालः / [ 4 / 1 / 18 / 10 / ] परार्थम् // 18 // ज्ञाग्लार्हशक्रंसहलभ्रभार्थे धातोस्तदर्थे ण्व च कर्तृभावे / ते धातुयोगे तृनपोरतुल्यो जोऽतु त्स्वपोः शानशतृक्रियायाः // 4 / 1 / 19 / / वृतम् // - (158) ज्ञाग्लार्हशककं सहलभ्रभार्थे / [ 4 / 119 / 1 / ] ज्ञादेर्भावे तुम् स्याद् अस्त्याद्यर्थ उपपदे / अस्ति, भवति, विद्यते भोक्तुं कालः समयः / वेलाऽवसरो भोक्तुम् / ज्ञानार्थे / जानात्यवंगच्छति भोक्तुम् / ग्लायत्यलस्यते भोक्तुम् / अर्हति, योग्यो, घटते, भोक्तुम् / शक्नोति, शक्त:, अलं. पर्याप्तः, प्रभुः, प्रगल्भो भोक्तुम् / प्रक्रमते भोक्तुम् / असहते, लभते, आरभत भोक्तुम् // (158) धातोस्तदर्थे / [4 / 1 / 19 / 2 / ] धातोः तुम् स्यात् तत्क्रियाप्रयोजने धातौ परे / भोक्तुं व्रजति / अध्येतुं याति / धातौ किम् ? भिक्षिष्ये इत्यस्य जटाः / तदर्थे किम् ? धावतस्ते पतिष्यति दण्डः / भविष्यत्यर्थात् / (159) ण्व च कर्तृ / [ 4 / 1 / 19 / 3 / ] तथा कर्तरि / भोजको व्रजत्योदनम् / एधानाहरको याति / न तृयादिः षष्ठि // (160) भावे / [4 / 1 / 19 / 4 / ] हिताय ते धातोः स्युः धातौ तदर्थे / पाकाय व्रजति / पञ्च. 40