________________ चतुर्थोऽध्यायः प्रथमः पादः 315 (170) शक्तिवयः स्वभावे / [4 / 1 / 21 / 6 / ] अर्थे तङानिभ्योऽपि शानः स्यात् / कतीह निघ्नानाः ? [कतीह] कवचं पर्यस्यमानाः ? कतीह शिखण्डं वहमानाः ? कतीह मन्द्रयमानाः ? [कतीह] भूषयमाणाः ? (171) आसीनः / [4 / 1 / 207] निपात्यते // (172) आने मुगतः / [ 4 / 1 / 20 / 8 / ] अतो मुगागम: स्यात् आने परे / वर्धमानः / पच्यमानः || (173) स्वलृट् तौ / [4 / 1 / 20 / 9 / ] स्वे भविष्यद्विषये यौ लुट् स तौ शतृशानौ स्यात् / भविष्यन् / करिष्यमाणः / स्वे किम् ? जानासि नो तत्र वत्स्यामः // 20 // विद्वांश्च लण्माङि क्षिपात् क्वसुर्लिट् कानः स्यतासौ लुलुटोश्च लोश्ले-। ऽनद्भ्यश्च शब्लुक् च हुतोऽप्युशौ तन्तुभ्यो रुधां श्नं श्य दिवादितो वा // 4 / 1 / 21 // वृत्तम्॥ . (174) विद्वांश्च / [ 4 / 1 / 21 / 1 / ] विदेर्लट् क्वसु निपात्यते / विद्वांसौ / [विद्वांसः // ] (175) लट् / [4 / 1 / 21 / 2 / ] स्वे वर्तमानकाले तौ स्यात् / पचन् / पचमानः / पचति / [पठति / ] सन् अस्त्युदाहृतम् स्वे किम् ? करोति स्म // (176) माङि क्षिपात् / [ 4 / 1 / 21 / 3 / ] माङ्योगे क्षेपेऽर्थे लट् तौ स्यात् / मा पचन् / : मा पचमानः / अत एव माङि लट् // (177) क्वसुर्लिट् कानः / [4 / 1 / 21 / 4 / ] लिडो तौ स्याद् बहुलम् / जक्षिवान् / पपिवान् / चिक्यानः / सुषुवाणः / शिशीर्वान् / शिशिराणः / किदनरेङर्थः // (178) स्यतासौ ललुटोश्च / [4 / 1 / 21 / 5 / ] धातोः स्यातामस्त: ललुटोः परयोः / लु इति लुट् लृट् च / करिष्यति / करिष्यत् / अकरिष्यत् / तथा, कर्ता // (179) लोश्लेऽनद्भ्यश्च शप् / [4 / 1 / 21 / 6 / ] शलोटि शिल्लिडि लटि लङि सपरे अनदादेः भ्वादेः कर्तरि शप् स्यात् / भवत् / भवेत् / भवति / अभवत् / अनद्भ्यः किम् ? अत्ति / लोश्ले किम् ? पपाच / पच्यात् / अपाक्षीत् / पक्ता / पक्ष्यति / अपक्ष्यत् // (180) लुक् च हुतोऽपि / [ 4 / 1 / 21 / 7 / ] जुहोत्यादेः शपोर्लुक् स्याल्लोश्लोः / रिद् द्वित्वार्थम् / जुहोति / जुहुयात् / ददाति / अददात् // (181) उशौ तन्तुभ्यः / [ 4 / 1 / 21 / 8 / ] तनादितुदादेः क्रमेण उशौ स्तः / तनोति / [तनोतु / अतनोत् / तनुयात् / ] तुदति / [तुदतु / अतुदत् / तुदेत् // ] (182) रुधां श्नम् / [4 / 1 / 21 / 9 / ] तथा / रुणद्धि / रुन्ध्यात् / अभिनत् / मिदचोऽन्त्यार्थः // ' (183) श्य दिवादितो वा / [4 / 1 / 21 / 10 / ] तथा / दीव्यति [दीव्यतु / अदीव्यत् /