________________ चतुर्थोऽध्यायः प्रथमः पादः 311 (155) णम् / [4 / 1 / 18 / 8 / ] तथा धातोः, क्त्वा वा / बहुलार्थं वृत्तचतुष्टयं सप्तपदी आभीक्ष्ण्यपूर्वे प्रथमे तथाऽग्रे तेनोपदेशश्च गितोर्म ऐक्ये / ङौ चोपपीड्पार्श्वरु धात् प्रमाणासत्त्योस्त्वरासैरमि वा ध्रुवेऽङ्गे // 1 // क्लेशे च नाम्नि ग्रह आदितश्च कालेऽन्तरे वाऽसुतृषो यङि स्क-। न्दत्येद् विशेः क्त्वा च भुवोऽपि तूष्णीमि चानुलोम्येऽन्वचि कुश्च तोऽङ्गे // 2 // नाधार्थतोच्चैरपि तिर्यचोऽन्तो वादावनिष्टोक्तिषु खि णुमध्यः / स्वादर्थतः क्रोशि च अन्यथैवं कथमित्थ[ मे] भ्योऽपि अनर्थकाच्च // 3 // तथायथाभ्यामसहोत्तरे च जीव्विन्दतेर्यावति विदृशिभ्याम् / कार्ये च चर्मोदरतश्चं पूरेव॒वृष्टिमाने वसनार्थक्नोपेः // 4 // पिषु शुष्कचूर्णादनु सोऽचि रूक्षाज्जीवग्रहाच्चाकृत कुः समूलात् / घ्नः कष् णि मूलाच्च इवान्तकर्तुः पूशुष्ट ऊर्ध्वात् पुरुषाद् वहः स्यात् / जीवान्नशो घ्नः करणात् पिषस्तु स्नेहात् करार्थाद् ग्रहवर्तितः पुषः / स्वार्थाद् ङि बन्ध्नाम्नि च सप्रपाद् वृत् // 5 // आभीक्ष्ण्ये / भोजं भोजं याति / भुक्त्वा भुक्त्वा व्रजति / पूर्वाद्युपपदे च / पूर्वं भोज, पूर्व भुक्त्वा वा याति / एवं प्रथमं [भोजं भुक्त्वा वा याति / ] अग्रे / [भोजं भुक्त्वा वा याति / ] तेनेति करण उपपदे उपदंशश्च न वा टेंति समासः / मूलकोपदंशं भुङ्क्ते / मूलकेनोपदंशं भुङ्क्ते / मूलकेनोपदश्य भुङ्क्ते / तेन किम् ? मूलकमुपदश्य भुङ्क्ते / गितो हिंसार्थात् तथाप्यस्यैकत्वे सति / दण्डोपघातं, [दण्डेनोपघातं, दण्डताडं, दण्डेन ताडं] गाश्चालयति ना / अर्म ऐक्ये किम् ? दण्डेनोपहत्य चौरं गाश्चालयति / ङौं र्य चोपपदे उत्पीडादेस्तथा / पार्श्वयोरुपपीडं, [पार्वोपपीडं, पार्वाभ्यामुपपीडं, पार्वाभ्यामुपपीड्य वा] शेते / क्त्वा च / एवं, पाणावुपकर्षं [पाण्युपकर्ष, पाणिनोपकर्ष, पाणिनोपकृष्य वा] गृह्णाति / व्रज उपरोधं [व्रजोपरोधं, व्रजेनोपरोध, व्रजेनोपरुध्य वा] गाः शादयति / इयत्तासन्नेऽर्थे, तथा ङौ धातोः / व्यङ्गले उत्कर्ष, [व्यङ्गलोत्कर्ष, व्यङ्गलेनोत्कर्ष, व्यङ्गलेनोत्कृष्य वा] काष्ठं छिन्धि / केशेषु ग्राहं, [केशग्राहं, केशाहं, केशैर्गृहीत्वा वा] युध्यन्ते / ङौं किम् ? व्यङ्गलमुत्कृष्य / प्रमाणासत्त्योः किम् ? दण्डं त्यक्त्वा गतः / त्वरासौं / त्वरागतौ तथा पञ्चम्यां धातोः / शय्याया उत्थाप, [शय्योत्थायं, वा] याति / [एवं नाम त्वरते यदवश्यं कर्तव्यमपि नापेक्षते, शय्योत्थानमात्रमाद्रियते / रन्ध्रापकर्ष, रन्ध्रादकृष्य वा पयः पिबति / / त्वरा किम ? आसनादत्थाय याति / रमि च / यष्टिग्राहं [यष्टि ग्राहं. यष्टि गहीत्वा वा] युध्यन्ते / एवं ते त्वरन्ते [यत्] प्रहरणान्यपि नापेक्षन्ते / क्षिभ्राऽमृते डे। स्वाङ्गे रमि तथा धातोः / ध्रुवोः विक्षेप, [भ्रूविक्षेपं जल्पति / अक्षिणी काणम्, अक्षिकाणं] जल्पति / अध्रुवे किम् ? उत्क्षिप्य शिरः कथयति // 1 // पीडागतो, आप्येऽङ्गे तथा / उरांसि प्रतिपेषम्, [उर:प्रतिपेषं वा] युध्यन्ते / कृत्स्नमुरः