________________ 310 पञ्चग्रन्थी व्याकरणम् सुप् टित् किम् ? अभिवाद्यः / तथैव हन्तेः हत च / ब्रह्महननं ब्रह्महत्या / स्त्रीहत्या / भुवश्च / . ब्रह्मभूयं देवभूयं गतः / तत्त्वं प्राप्तः / भावे किम् ? श्वघात्यः / सुप् टित् किम् / भव्यम् / प्रभव्यम् / घातोपघातौ वर्तेते / ण्यो न बहुलत्वात् / जयादित्योऽप्याह-ण्यो नानभिधानात्' [काशि 3 / 1 / 108] / घात्यम्, उपघात्यमित्यन्ये / प्रत्युदाहरन्ति / कुप्यं, धनं चेत् / आज्यं, घृतं चेत् / गोप्यं मायं चान्यत् // 5 // भादौ पुष्यादि निपात्यते / भे किम् ? पोषणः / सेधनः / उज्झत्युदकम् / भिनत्ति कूलानि / उद्ध्यः / भिद्यः] नदे किम् ? उज्झिता / भेत्ता / पत्रं वाहनम् / [पत्रं] किम् ? योग्यः / हल्यादौ किम् ? जेत्यम् / विपच्यः / विनेयः / पक्ष्यादि / ग्रह: क्यप् / त्वद्गृह्याः / मद्गृह्यः / तत्पक्षाश्रितः [इत्यर्थः / ] ग्रामगृह्या स्त्री, सेना वा / तद्बाह्या [इत्यर्थः] आत् किम् ? ग्रामग्राह्यः / [प्रतिग्राह्यम् / अपिग्राह्यम् / ] प्रगृह्यम्, पदं यस्यावग्रह: क्रियते सन्धेर्वाऽचि / अवगृह्यका इमे / परतन्त्राः / [इत्यर्थः / ] / शक्यार्थे / शक्यं क्षेतुं, क्षय्यम् / [जय्यः / क्रय्यः / ] शक्ये किम् ? . क्षेयः / प्रयोज्यः / [नियोज्यः / ] जेयः / कृष्टे पच्यन्ते, कृष्टपच्याः शालयः // 17 // वास्तव्यकर्ता सिदनीयतव्यौ परापरे वा नञलङ्खलौ क्त्वा / मेडेककत्रोः प्रथमादिवे णं नो यद्यधातौ तु तुमस्ति कालः // 4 / 1 / 18 // वृत्तम् // (148) वास्तव्यकर्ता / [ 4 / 1 / 18 / 1 / ] चेद् वसति, वास्तव्यः // (149) सित् / [ 4 / 1 / 18 / 2 / ] सित् केलिमोऽत्र यदर्थम् / अवश्यं पचेलिमा माषाः // (150) अनीयतव्यौ / [4 / 1 / 18 / 3 / ] भावामि च धातोः स्तः / शयनीयम्, आसितव्यं ना / करणीयः, कर्तव्यः कटः / तथा, स्नानीयं चूर्णम् / दानीयो ना / (151) परापरेऽर्थे / [ 4 / 1 / 18 / 4 / ] परः क्त्वाऽपूर्वोऽपि स्यात् / अप्राप्य नदी पर्वतः / परनदीयोगेन पर्वतो विशिष्यते / अतिक्रम्य पर्वतं नदी / अपरपर्वतयोगन नदी विशेष्यते / अत्येन गम्यमाने धातौ क्त्वा / प्रविश्य पिण्डीम् इति मतान्तरे // (152 ) वा नञलङ्घलौ क्त्वा / [ 4 / 1 / 18 / 5 / ] प्रतिषेधार्थालङ्घलावुपपदे धातोर्वा क्त्वा स्यात् / अलङ्कृत्वा / अलं कृतेन / खलुकृत्वा / [खलु कृतेनं / अलं बाले रुदित्वा / नबर्थे किम् ? अलङ्कारः / अनयोः किम् ? मा कार्षीः / ङिरसमासार्थः // (153) मे डेककों : प्रथमात् / [4 / 1 / 18 / 6 / ] मेङोऽपूर्वार्थमेककर्तृकयोः व्यापारयोः पूर्वतिङ् क्त्वा वा / अपमित्य याचते / अपमातुं याचते / याचित्वाऽपमयते / तथा, भुक्त्वा याति / भक्ता पीत्वा गतः / एककों: किम् ? भक्तवति त्वयि स याति / प्रथमात् किम् ? भुङ्क्ते पिबति (154) इवे / [4 / 1 / 18 / 7 / ] एककोंयुगपद्व्यापारयोरपि पूर्वाद् इवि च प्रतीयमानाद् वा क्त्वा / मुखं व्यादाय स्वपिति / अक्षिणी निमील्य हसति / संस्कृत्य जल्पति / इवात् किम् ? गच्छति जल्पति च //