________________ चतुर्थोऽध्यायः प्रथमः पादः 309 . भे पुष्यसिद्ध्यौ उद उद्ध्यभिद्यौ युग्यं च पत्रे हलि मुञ्जकल्के / जित्या विपूयोऽथ विनीयपक्ष्याबाह्यां पदास्वैरिणि तु ग्रह: स्यात् / मृषोद्यसूर्योऽव्यथराजसूयः क्षय्यप्रयोज्यौ च नियोज्यजय्यौ / शक्ये च गाथेति च कृष्टपच्याः // 6 // अचः / चेयम् / लव्यम् / चिकीर्ण्यम् / एवं, चत्यम् / पोः पवात् / वप्यम् / गोप्यम् / टिदप्रादेः / यम्यम् / [गद्यम् / मद्यम् / ] चर्यम् / टित् किम् ? प्रयाम्यम् / [प्रगाद्यम् / प्रमाद्यम् / चरि साङ / आचर्यो देशः / अगरौ किम ? आचार्यः / आत खनोऽन्त एच्च / देयम / खेयम / क्वचिन्निपातनं चातः / ऋतुमती प्राप्तकाला चेत् [प्रजने], उपसर्या गौः / [उपसर्या] वडवादि / उपसार्याऽन्या / सुपः टितो वदः / ब्रह्मवद्यम् / इणादौ, ब्रह्मोद्यम् / सुप्टित् किम् ? वाद्यः / अभिवाद्यः / एवम् अमा सह वसतौ अस्यां चन्द्रार्को, रिद् वा ण्यः / अमावास्या / [अमावस्या / ] उ: अर्यस्वामिवैश्यश्च / आर्योऽन्यः // 1 // ___पण्यः पटादिः विक्रेयश्चेत् / अवद्यं गयँ पापं चेत् / पाण्यम्, अनुद्यम् अन्यत् / वृञः वर्या निषेध्येऽर्थे / शतेन वर्या, लक्षण वा / वृत्याऽन्या / बहुलत्वात् स्त्रियामेव / वार्या ऋत्विजः / अतोऽत्र गणे घङ्ग्रहणे न गृह्यते षष्ठ्यर्थम् / वहन्त्यनेन वा शकटम् / करणं किम् ? वाह्यम् / अजुः / नञो जुषः कर्तरि च / अजर्यम् आर्यसङ्गतम् / सङ्गते किम् ? अजरिता पटः / अतो वा कर्तरि च बहुलं च / आङः द्वौ यात् / कर्तरि [आप्लाव्यः / आपात्यः / ] प्रवचनीयः / [उपस्थानीयः.] अभ्यः / [भव्यः / जन्यः / ] गेयो ना साम्नाम / भावामि च / गेयं साम ना / आप्लाव्यादि घदर्थं, कर्बर्थं च / गणः // 2 // ____ आङ् सुनोति त्यु / अनावश्यके च, असाव्यम् / एवं, पाणिसा [रज्जुः / ] समवः / समवसर्या रज्जुः / आभ्यां किम् ? सृज्यम् / ऋवर्णहलन्ताद् धातोः / हार्यम् / पाक्यम् / वाक्यम् / अश्नोतेः ओः उवर्णान्ताद् आवश्यकेऽर्थे / भव्यम् / अवश्यभाव्यम् / अश्नु किम् ? अवश्यस्तुत्यः / आवश्यके किम् ? दव्यम् / अग्नौ वाच्ये इतोऽग्नेः परोऽत्र चाग्नावर्थे चित्या स्यात् / चित्योऽग्निः / अग्निचयनम् / अग्निचित्या / अग्निचयनमन्यत् // 3 // ___ एवं, सान्नाय्यं घृतं, हविः / धाय्या सामिधेनी / ऋक्शंसतिश्च रूढ्या / संनेयं, धेयं चान्यत् निकाय्यो निवासः पाय्यं मानम् / निचेयं, मेयं चान्यत् / प्राङ्भ्यां नाय्यः / प्रणाय्योऽसंमतश्चौरादिः / प्रणेयोऽन्यः / कथं प्रणाय्याय पुत्राय ब्रह्म ब्रूयात् / अनभिलाषश्चासंमतिः / आनाय्यो दक्षिणाग्निः / आनायोऽन्यः / सञ्चीयतेऽत्र कुण्डैश्च पीयत इत्यर्थे सञ्चाय्यः, कुण्डपाय्यः, क्रतुश्चेत् / असुब्च्छन्दोऽर्थम् / क्रतु किम् ? सञ्चयः / कुण्डपानम् / द्वितीयो गणः // 4 // इत्यः / इङ् / वृङ् / उपेयम् / वार्या ऋत्विजः / बहुलमेव / अनिवार्यो गजैरन्यैः स्वभाव इव देहिनाम् / ऋदुपान्तात् / वृत्यम् / वृध्यम् / नाभ्याम् / कल्प्यम् / चर्त्यम् / भृत्यः / अनाम्नि किम् ? भार्या नाम क्षत्रियाः / नाम्न्यपि स्त्रियां क्यबस्ति चेत् तस्य भावे विधानात् / संभृजादेः रिद् वा / संभृत्यः / संभार्यः / एवं, [कृत्यम् / कार्यम् / शस्यम् / शंस्यम् / वृष्यम् / वर्ण्यम् / मृज्यम् / मार्यम् / दुह्यम् / दोह्यम् / गुह्यम् / गोह्यम्] सुपष्टितो वदः / सत्योद्यम् / [सत्यवद्यम् / ]