________________ 308 पञ्चग्रन्थी व्याकरणम् शीलितो रक्षितः क्षान्त आकृष्टो जुष्ट आसितः / रुष्टश्च रुषितः सुप्तः लिप्तोऽभिव्याहतो मृतः / हृष्टतुष्टौ कमेस्तृप्तः शयितः संयतोद्यतौ // 2 // षट्पदी // कमेः कान्त इत्यादि / सम्भावनीयेऽवश्यंभावितयाऽतोद्वतौ चार्थे धातोर्भविष्यति काले / दृष्टश्चेद् गुरुर्भोजितस्तेन / यदि द्रक्ष्यत्ववश्यं भोजयिष्यतीत्यर्थः / वृष्टश्च देवः सम्पन्नाः शालयः / श्रुतश्चेच्चौरो घातितस्तेन / कष / सामान्यर्थः / कष्टम् // गणः // (144) युधिशास्तशाद् धृष्मृषो यु भावामि / [4 / 1 / 17 / 2 / ] एभ्योऽपि कृच्छ्राकृच्छ्रार्थेषदादिपरेभ्यो भावाप्ययोयुः स्यात् / ईषद्योधनः / सुयोधनः / दुर्योधनः / एवमात् / ईषत्पानः सोमो ना / ईषद्दानो गौा / ईषत्स्थानं ना / कृच्छ्रेतरात् किम् ? ईषद्दातव्यः / दुर्देयः / दुः पापार्थः / ईषदादेः किम् ? कृच्छ्रेण देयः / (145) ख / [4 / 1 / 17 / 3 / ] स्यात् तथा धातोः / ईषच्छयं ब्रा / ईषत्करः कटो व्रा / खित् परार्थः // (146) भूकृञोऽच्चे कर्जमईषत्सुदुरोऽपि कृच्छ्रकृच्छ्राच्च / [4 / 1 / 17 / 4 / ] तथा भूकृञः खित् किन्त्वच्चेः चव्यर्थात् / क्रमेण क_प्याभ्यां पराच्च / अनीषदा ढ्येन भूयते ना / ईषदाढ्यंभवं ना / [स्वाढ्यंभवं ना / दुराढ्यंभवं ना / ] अनीषदाढ्यः ईषदाढ्यः क्रियते ना, ईषदाढ्यङ्करो ना / [स्वाढ्यङ्करो ना / दुराढ्यङ्करो ना / ईषत्कटङ्कराणि तृणानि ना / कञमः किम् ? ईषद्भूयते / [सुभूयतेः / दूर्भूयते / ] च्व्यर्थात् किम् ? स्वाट्येन भूयते // (147) यण्यक्यबजाश्व्यणादेः / [4 / 1 / 17 / 5 / ] अजाद्या अस्वादीणादेः क्रमेण यण्य क्पय् स्याद् भावामि, क्वचित् कर्तादौ च / त्रिषु दोधकवृत्ते ते दोधकं सप्तपदी अच्चति यज्यति शस्सहि शक्तक पोष्ट्यमगद्मदचत्यगुरौ माङ् / आत् खन एट्ट तु मत्युपसर्या सुब्वदमा सह उ.. प्रभुवैश्यौ // 1 // विक्रियगय पणवढ आवारणे घङ् वहमजुः करणे च सङ्गते / वाप्लाव्यपात्यौ वचनीयप्रादुपस्थानीयभव्याप्यथ तु जनोऽथगः // 2 // आसुयुवप्रतिसयुपिचमतृभ् पाणिसृजः समवाहलोऽश्न्वा-।। कश्यक ओः परिचाय्यसमूह्याग्नावुपचाय्य इतोऽत्र च चित्या // 3 // सान्नाय्यधाय्यौ घृतसामिधेन्योनिकाय्यपाय्यौ च निरासमाने / प्रणाय्य चासंमतदक्षिणाग्न्योः संचाय्य चेत् स्यात् क्रतु कुण्डपाय्यः // 4 // इण्स्तुदृवृ ष्शासृदुपान्तात् क्लृप्तृतनाम्नि भृसंभृकृशंसि / वृष्मृजिदुगुहिसुप्वदभावे हंहतनूः धनकुप्यघृतायाम् // 5 //