________________ 306 पञ्चग्रन्थी व्याकरणम् ___ (128 ) सवचलः / [ 4 / 1 / 15 / 1 / ] तथाऽतो यङन्तात् किः / सासहिः / [वावहिः / चाचलिः // (129) पापतित् / [4 / 1 / 15 / 2 / ] पतेर्यङन्तात् किः / [पापतिः / ] नीगभावो निपात्यते। त् घत्प्रत्याहारार्थः // (130) आतृजङ्गं नो लिड्वत् / [ 4 / 1 / 15 / 3 / ] तथाऽतः कि लिड्वत् स्यात् / आत्। .. पपिः सोमम् / ददिर्गाः / ऋ / चक्रिः / सस्रिः / मम्रिः / जन् / जज्ञिः बीजम् / गमः / जग्मिः. ग्राम्यं ना / हन् / जघ्निः वृत्रम् / लिट्वविष्किदार्थम् // (131) उण्को लषभूवृषद्विकसृपतस्थापदः / [4 / 1 / 15 / 4 / ] तथाऽतः उण्कोऽपि णिन्तार्थः / उक्तः स्यात् / अपलाषुकं वृषलसङ्गतम् / यु च / अपभावुकः प्रभविष्णुः / वर्षक: / द्वीत्यनन्तरम् / गम्हनिभ्याम् / आगामुकः / आघातुकं बालकस्य सूत्रम् / कामुकः / कमिता / प्रसारुकः / प्रपातकः / स्थायुकः / प्रपादुकः // (132) आरु वञ्च्छ्यः / [4 / 1 / 15 / 5 / ] तथा वन्दिश्रीभ्याम् आरुः / वन्दारुः / [शरारुः // ] (133) आशंसभिक्ष्विन्दिसनिच्छ उ: / [4 / 1 / 15 / 6 / ] तथाऽतः उरपि / आशंसुः / [भिक्षुः / विन्दुः / सन् / चिकीर्षुः / जुगुप्सुः / यु च / इच्छुः // .. (134) रुः / [4 / 1 / 15 / 7 / ] परार्थः // 15 // शत्सत्सिधेड्डस्त्रसिगृधृषक्षिप् क्नुपर्लाजिभूः स्नुः स्पृहिशीपतेर्दय् / गृह्यालुभीक्रुक्लुक चेष्णु भूभ्यस्तृण्णिणे च क्तवतुश्च भूते // 4 / 1 / 16 // वृत्तम् // (134) शत्सत्सिधेड्डः / [ 4 / 1 / 16 / 1 / ] तथाऽतः रुरपि / शदुः / [सद्रुः / सेरुः / धारुः / दारुः // ] (135 ) त्रसिगृध्धृष्क्षिप् क्नुः / [ 4 / 1 / 16 / 2 / ] तथाऽतः कित् नुः / [त्रस्नुः / गृध्नुः / धृष्णुः / क्षिप्नुः // ] (136 ) ग्लाजिभूः स्वः / [ 4 / 1 / 16 / 3 / ] तथाऽतः कित् स्नुः / ग्लास्नुः / [जिष्णुः / भूष्णुः // (137) स्पृहिशीपतेर्दयगृह्यालुः / [4 / 1 / 16 / 4 / ] तथाऽतः आलुः / स्पृहयालुः / [शयालुः / ] पतयालुः / दयालुः / गृहयालुः // (138) भीक्रुक्लुक च / [ 4 / 1 / 16 / 5 / ] भियस्तथा कित् रुलुकौ स्तः / भीरुः / भीरुकः / लत्वं वा / भीलुकः // (139) इष्णु भूभ्यः / [4 / 1 / 16 / 6 / ] तथेष्णुरपि भूभ्यः / इह चार्धे