________________ चतुर्थोऽध्यायः प्रथमः पादः 305 (117) कम्हिंस्स्मिदीपकम्प्यजसस्नमो रः / [4 / 1 / 13 / 1 / ] अपियोगात् साध्वादौ / कमादेः रोऽपि यथाप्राप्तोऽपि प्रायः स्यात् / कम्रः / [हिंस्रः / स्मेरः / दीप्रः / कम्प्रः / अजस्रम् / नम्रः ।कम्कम्पेर्यु च / [कमनः / कम्पनः / ] स्नमः सित्त्वादाप्ये कर्तरि // (118) भास्स्थेशयायापिसकस्वरोऽपि / [4 / 1 / 13 / 2 / ] तथाऽतो वरोऽपि / भास्वरः / [स्थावरः / ईश्वरः / यायावरः / पेस्वरः / कस्वरः / ] यो यङित् यायाभासोर्यु च // . (119) मिद्भासभंस्जो घुरः / [4 / 1 / 13 / 3 / ] तथाऽतोऽत्र घुरोऽपि / मेदुरः / [भासुरः / भङ्गुरः / ] भंस्जः सित्त्वात् स्वयं कर्तरि / / (120) मक्रघसस्रद् / [.4 / 1 / 13 / 4 / ] तथाऽतः कित् मरोऽपि / घस्मरः / [सृमरः / अमरः // ] (121), सित् केलिमाप्ये / [4 / 1 / 13 / 5 / ] धातोस्तथाप्येकत्र केलिमः स्यात् / सिदत्याप्योपलक्षणम् / तथोदाहृतम् / स्वयं पच्यन्ते, पचेलिमाः माषाः / भिदेलिमानि काष्ठानि / आप्ये किम् ? पक्तव्या माषा जा // (122) कुलुण्ट्वृभिक्षात् / [4 / 1 / 13 / 6 / ] परार्थम् // 13 // जल्पाट्टिदाकः त्वरगिजिगंसुः छिद्भिस्दिवेत्तेः कुर नश्वरस्वप्-। तृष्धृष्ज्ञकः स्थास्नु च जागरूकः वद्यज्जपो दंशदहो यङः किः // 4 / 1 / 14 // वृत्तम् // (122) जल्पाट्टिदाकः / [4 / 1 / 14 / 1 / ] कुट्यादेस्तथा / आकोऽपि टित् स्यात् / कुट्टाकः / [लुण्टाकः / वराकः / भिक्षाकः / जल्पाकः / ] टिद्ङ्यर्थः // (123) त्वरगिण्जिगंसुः / [ 4 / 1 / 14 / 2 / ] तथेणादेः त्वरायुक्ते / इत्वरः / [जित्वरः / गत्वरः / सृत्वरः / ] गमः तृन् सण् क च // (124) छिद्भिस्दिवेत्तेः कुर / [4 / 1 / 14 / 3 / ] तथाऽतः कुरोऽपि / भिच्छिदोः सित्त्वाद् आप्ये कर्तरि / वेत्तिः ज्ञानार्थो, न लाभाद्यर्थः / छिदुरः / [भिदुरः / विदुरः / ] यत्तु 'दोषान्धकारभिदुरो दृप्तारिपक्षच्छिदुरः' इति तन्मतेऽसित् / 'भिद्वेत्तिछिद्भ्यः' [इति च] पाठः // (125) नश्वरस्वतृष्धृष्ज्ञकः स्थास्नु च / [4 / 1 / 14 / 4 / ] नशेः / नश्वरः, टित् / स्वपितृषेर्नजिद् निपात्यते / स्वप्नक् / तृधृ नजौ / [तृष्णक् / धृष्णक् / ] स्थास्नु च // (126) जागरूकः / [4 / 1 / 14 / 5 / ] ऊकोऽपि तृत्वजागर्तेः तथा / जागरूकः // (127) वद्यज्जपो दंशदहो यङः / [4 / 1 / 14 / 6 / ] तथाऽतो यङ्न्ताद् ऊकोऽपि / वावदूकः / [यायजूकः / ] एवं [जञ्जपूकः / दन्दशूकः / दन्दहूक:] शत्रुः // . (128) किः / [4 / 1 / 14 / 7 / ] परार्थः // 14 // . सह्वह्वलः पापतिदातृजङ्गं जो लिड्वदुण्को लषभूवृषद्वि-। कं सृपतस्थापद आरु वञ्च्य आशंसभिक्ष्विन्दिसनिच्छ ऊ रु: // 4 / 1 / 15 // वृत्तम् // .' पञ्च.-३९