________________ 304 पञ्चग्रन्थी व्याकरणम् [आक्रीडी / दोही / द्रोही / द्वेषी / त्यागी / भागी] इत्यादि / लुक् / रागी / वेः परात् कषादेः / विकाषी, न युः / [विकत्थी / ] एवं [विलासी] नोकण् // 1 // [विस्रम्भी / ] परेः / परिसारी / [परिदेवी / परिक्षेपी / परिराटी / परिवादी / परिदाही / परिमोही / ] विरोधी / [अनुरोधी / ] आयासी / [आयामी / ] समः / सवारी / [संसर्गी / सम्पर्की / ] पित् रुधादिः / न्यदादिः / प्रात् / प्रसारी / [प्रद्रावी / ] प्रवासी / प्रवादी / प्रमाथी / प्रलापी] // 2 // विघाती / अभ्याघाती / अमोष् / अमोषी / अमोघी, इत्येके / विवेकी / अतिचारी / [अपचारी / ] अन्यपूर्वादपि स्याद् उक्तगणात् / प्रयासी / [प्रयामी / ] विसारी / विसंगी / संवादी / विवादी / अनुवादी / विदाही / सञ्चारी / व्यभिचारी / विद्रावी / संवासी, इत्यादि / रुज्भुजादेः / रोगी / [भोगी / ] आद्याकृत्यर्थः / एभ्यः प्रापस्तृनिप्राप्ते द्वितीयो गणः // क्लेशादेः ण्वुः / क्लेशकः / कोश्देवि / कित् प्रादेः / आक्रोशकः / परिदेवकः / कित् किम् ? कोष्टा / . देवयिता / व्याभाषकः / परेः / परिवादकः / [परिराटकः / परिक्षेपकः / ] ण्वुः किम् / साध्वादौ न तृचादि / गेहादिपादं विहाय वृत्तं पठन्त्यन्ये / मुचादौ ग्रहः / वृः गृहम् / शमादेर्पण इन् / ष्णुक प्राक् / ओशनिकस्यापि साध्वादौ समावेशात् / तत्रोक्तम्-लक्ष्माविरुद्धमित्यादि / साध्वाद्यर्थस्य तु प्रायः समावेशोऽपि समुचितः स्यात् // __ (116) ज्वादेर्यु साधावपि धर्मशीलेऽच् / [4 / 1 / 12 / 10 / ] साधुनिपुणः / यो धात्वर्थम् / साधुकरोति / धर्मो ममायमाचार इति प्रवर्तते / शीलं स्वभावः यत्ननिरपेक्षा प्रवृत्तिः / एषु कर्तृषु ज्वादेर्बहुलं युः स्यात् / अपि सम्बन्धात् स्वलक्षणे प्राप्तोऽपि प्रायः / विकत्थनः / विकत्थी, इत्यादि / जोश्चालशब्दार्थहलादितद्वतोऽङोऽदीक्षसूद्दीपयतोऽप्यकर्मकात् / भूषाक्रुधार्थात् सृगृधः शुचज्वलात् चक्रम्यदन्द्रम्य लषात् [पदात्] पतेः // 1 // अकर्मकादिति सर्वत्र सम्बध्यते / जुः सौत्रः / जवनः / चलनार्थः / चलनः / चोपनः / शब्दार्थः / रवणः / शब्दनः / अनाप्यात् किम् ? पठिता विद्या / हलादेस्तद्वतोऽङितः / वर्तनः / वर्धनः / बहुलमेव / परिदेवनः / परिदेवकश्च न स्यात् / हलादिः किम् ? एधिता / आदि किम् ? जुगुप्सनः / तद्वतः किम् ? भविता / अङः किम् ? शयिता / अनाप्यात् किम् ? वसिता वस्त्रम् / अदीक्षादेः किम् ? दीक्षिता / सूर्दरिद् वा / सूदिता / मधुसूदनः / दीपो रोऽस्ति बाधकश्चेत् तथा तृतोऽपि बाधा स्यात् / दीप्रः / दीपिता / यकारान्तात् / क्नूयिता / मायिता / भूषाकुधार्थात् / भूषणः / क्रोधनः / कोपनः / एवं स्रादेः / चालोऽन्तामर्थः / पदिश्चनौ क्तेन बाधा अपि नाप्राप्तः // 12 // कॉिस्स्मिदीप्कम्प्यजसस्तमो रो भास्स्थेशयायापिसकस्वरोऽपि / मिद्भासभंस्जो घुर मक्र घस्स्रत् सित्कोलिमाप्ये कुट्लुण्ट्वृभिक्षात् // 4 / 1 / 13 // वृत्तम् //