________________ चतुर्थोऽध्यायः प्रथमः पादः 303 नाम देवाः / टित् किम् ? प्रवेदकः / प्रवेदः // गण 3 // ज्वग्रहष्ट्वा / ज्वव् प्रत्याहारः / ज्वलादि शतृ शासनेऽच् यावत् / एभ्यो भूग्रहश्च वा टितोऽप्रादेश्च / ज्वालः / ज्वलः / सादः / [सदः / ] भावः / [भवः / ] ग्लाह: / जनचरः / ह: सर्यादि / मक्तेऽच / टित किम ? प्रज्वलः / [प्रसदः / प्रभवः / प्रग्लहः / / व्यधादेनित्यम / श्वसादेश्च / व्याधः / अवतानः / निःश्वासः / इण् अत्यायः स्यात् / शोङ आतश्च / अवश्यायः / न कः / दायः / पायः / टितोऽर्थात् / दुन्यः / दावः / नायः / टित् किम् ? प्रदवः / [प्रणयः / ] एवं, संस्रावः / आस्रावः / अवसायः / अवहारः // गणः 4 // (108) थको गः / [4 / 1 / 12 / 2 / ] गाथकः // (109) ण्युट् / [4 / 1 / 12 / 3 / ] गः गायनी // (110) व्रीहिकाले ह उ / [4 / 1 / 12 / 4 / ] उ निपातः / हो ण्युट् / हायनो व्रीहिः / संवत्सरश्च / हतोऽन्यः // (111) वुड्डु शिल्पी नृत्खः रजः / [4 / 1 / 12 / 5 / ] अतो वुट् शिल्पी चेत् कर्ता / नर्तकः / [खनकः / रजक: I] न्लोपो निपातनात् // ___ (112) लूप्रसृतो वुन् / [ 4 / 1 / 12 / 6 / ] तथा / लवकः / [प्रवकः / सरकः / ] प्रोताऽशिल्पी / निद् अकेनीत्यर्थः // ..(113) आशीः / [4 / 1 / 12 / 7 / ] चेत् धातोः वुन् स्यात् / जीवतात्, जीवकः / नन्दकः || (114) गेहे गृहा / [ 4 / 1 / 12 / 8 / ] गेहेऽर्थे गृहं सम स्यात् / गृह्णन्ति [इति] गुहा दाराश्च / बहुलत्वात् // -- ( 115) इघ्णिण्णुजिसं क्लिशादेः / [4 / 1 / 12 / 9 / ] क्रमेणैतेभ्यः इनाद्याः स्युः, साध्वादौ / एषु वृत्तत्रयम् जिदृक्षिविश्रीपरिभूप्रसूभ्योऽव्यथाभ्यमाभ्यां वमतेः प्रजो वृत् / शम्वो युजक्रीडदुहद्रुहद्विष् त्यजज्भजो वेः कषकत्थलस्भ्यः // 1 // सम्भाव्यपाल्लष् च परेः सृदेविक्षिप्रट्वदेः दहमुहतो व्यनो रुध् / आयस्यमः संज्वरसृज्पृचेभ्यः प्रात् सृद्रुवस्वद्मथतो लपाच्च // 2 // व्यभ्याहनोऽमोष् विवचोऽत्यपाच्चर् प्रायोऽन्यपूर्वादपि रुज्भुजादेः / क्लिनिन्दहिस्खाद विनाशसूयात् क्रोष्ट दिव्याभाष्परिवादिरक्षिप् // 3 // जयी / [दरी / क्षयी / विश्रयी / परिभवी / प्रसवी / अव्ययी / अभ्यमी / वमी / ] यावत् प्रजवी / वृद् गणान्ते / गवादि / शम्वः / शमाद्यष्टभ्यः युजादेश्च घ्णिन् / घित् कुत्वार्थम् / णिद् आरैजर्थम् / शमी / [तमी / दमी / श्रमी / भ्रमी / क्षमी / क्लमी / ] उन्मादी / योगी /