________________ 302 पञ्चग्रन्थी व्याकरणम् पच्वच्वपो मृचल्नद्वदेः प्लः गगाहच!रिसृतृपनिभ्यः / / भृझष्कषादोऽपि यथा च दृष्टिः // 1 // त्रिपात् // पच: यावद् आदेः / प्रघसः / पूर्वाजणाद्यपवादः / एवं पक्ता / पाचकः / कर्ता / कारकः / बहुलमेव / पादाभ्यां हियते, पादहारकः / गले चुप्यते, गलेचोपकः / नदीत्यादि गौरादौ नटच् // ____ (106) युणिन्सणाः स्युः / [ 4 / 1 / 11 / 6 / ] तथा जसन्तद्वन्द्वात् परेभ्यो नन्दादिभ्यश्चतुर्थ्य: क्रमेण // 11 // नन्दिग्रहघ्राज्वलतस्थको गः ण्युड्व्रीहिकाले ह उ वुड शिल्पी / नृत्खः रजो लूप्रसृतो तुनाशी: गेहे गृहेन् घ्णिण्णुजिसं क्लिशादेः / ज्वादेर्यु साधावपि धर्मशीलेऽच् // 4 / 1 / 12 // पञ्चपात् // 107) नन्दिग्रहघ्राज्वलतः / [4 / 1 / 12 / 1 / ] ते / एषु षट्पादद्वयं पञ्चपदी च .. णेर्नन्दिवाशेर्मदिदूषिसाधेः स्याद् वधिशोभेरपि नाम्नि रोचेः / . दन्तप्सहोऽणेश्च युजल्परम्भ्यो दृप्संहषः क्रन्दकृषो जनार्दः / विभीषणः स्यान्मधुसूदनश्च चित्ताद् विनाशाल्लवणं कुलाद् दम् // 1 // गृह्मन्त्रिनेरक्षवपश्रुशा नञः याच्याहसंव्याहवदव्रजो वसो-। ऽचोऽचित्तवत्कर्तृकतो विषेर्लघुः देशे च भूतेऽभिपरेर्भुवो न वा / स्थाव्याहसंमर्दनिवेशतो रुधोऽवोपादुदो भास्वस्सहोऽपराधिनः // 2 // घ्राघेट्टशध्माऽपि वद्वेदिधारिवित्सातिसाहे लिपपाषुदिजि-। र्दावो चेते निर्लिपो गणोऽयं ज्वग्रहष्ट्वा व्यधतः श्वसेऽण् स्यात् / दुन्यः समास्रोरव सा हो वृत् // 3 // णेः ण्यन्तान्नाम्नि च / नन्दयति नन्दनः / [वाशनः / मदनः / दूषणः / साधनः / वर्धनः / शोभनः / रोचनः / ] अणेः / दमनः / [तपनः / सहनः / यवनः / जल्पनः / रमणः / दर्पणः / ] समः / संहर्षणः / [सङ्क्रन्दनः / सङ्कर्षणः / ] जनादर्देः / जनार्दनः एवं चित्तविनाशनः / कुलदमनः / लवणम् / णत्वं च निपात्यते // गणः 1 // गृह्णातीति ग्राही / मन्त्री / नेः / निरक्षी / [निवापी / निश्रावी / निशायी / ] नञः / अयाची / [अव्याहारी / असंव्याहारी / अवादी / अव्राजी / अवासी / ] अजन्ताच्चित्तवत्कर्तृकाच्च नञः / अकारी धर्मस्य बालातपः / अहारी / विषिजो लघुर्न वाऽत्र, देशेऽर्थे / विषयी / विषायी / एवंभूतेऽर्थे वा / अभिभावी / [अभिभवी / परिभावी / परिभवी / ] स्थायी / [व्याहारी / संमर्दी / निवेशी / ] रुधोऽवोपाद् / अवरोधी / [उपरोधी / ] उदः उद्भासी / [उवासी / उत्साही / ] अपराधी, इत्यादि / इनि सिद्धेऽचादि मा भूत् // गणः 2 // उज्जिघ्रः / धयः / पश्यः / धमः / प्रपिबः / द्वेदीति लघुश्रुतिः / टितोऽतोऽप्रादेः / वेदयः / धारयः / गोविन्दः / एवं दाञ्धारिद् वाऽणोपवादः / ददः / दायः / दधः / धायः / निलिम्पा