________________ चतुर्थोऽध्यायः प्रथमः पादः 301 आप्ये किम् ? स इव पश्यति / टिद् ड्यर्थः / तादृशी / (102) विट् सनक्रङ्खनजङ्गमः / (4 / 1 / 11 / 2 / ] सुपोऽतो विट् / [सन] गोषाः / वृषाः / [क्रम् / ] दधिक्राः / [खन / ] कूपखाः / [जन्] अब्जाः / [गम / ] अग्रेगाः // (103) अदः क्रव्यादनन्नात् / [4 / 1 / 11 / 3 / ] तथाऽदः / क्रव्यात् / अपक्वमांसभक्षः / रिद् वा / कव्यादः / पक्व[मांस] भक्षः / अनन्नात् सुपः / आमात् / अनन्नात् किम् ? अन्नादः // . (104) क्विबनाद् वनिविच्क्वनिप्मनः / [4 / 1 / 11 / 4 / ] सुबसुप्प्राद्यप्रादिधातोरनातः क्विप्, आतश्चान्ये / क्विप् / पर्णध्वत् / उखास्रत् / वहाय भ्राट [वाहाभ्रट्] / अनातः कीम् ? कीलालपाः / विच्क्विपीत्वं मा भूत् / वनिप् / भूरिदावा / घृतपावा नौ / विजावा / विच् / क्षीरपाः, वित् / क्वनिप् / सुधीवा / सुपीवा / प्रातरित्वानौ / मन् / सुदामा / सुशर्माणौ / बहुलार्थे वृत्तद्वयम् . ग्रावस्तुपभ्राज्यलघुविभासभूयेस्तथा साचि च छिद्भिदादेः / सत्सूद्विषद्रुधुजविकिभिदुहराज्ञीछिदोघो नुडि ब्रह्मवृत्र-॥१॥ भ्रणा ञः कर्मसुपुण्यपापकर्माप्यतोऽग्नेरिह चेः सु सोमात् / क्वनिप्दृशो राजसहात् कृयोधेर्वनिब्यजः स्याद् बहुलाधिकारात् // 2 / / साचि चेति साधुधर्मशीलच् तेषु चान्यत्र च वृत्तार्धात् / ग्रावस्तुत् / ग्रावस्तुतौ / पूरित्यादि / सदादि छन्दात् / सुप्पादिभ्याम् / अन्तरिक्षसत् / उपनिषत् / अण्डसूः इत्यादि / घुः एव, लुङि ब्रह्मभूत एव, ब्रह्मादेरेव, क्विबेवेति चतुर्विधो नियमः / अलघुः / ब्रह्माणं हतवान् ब्रह्महा / [वृत्रहा] // 1 // - [भ्रूणहा / ] एभ्यः किम् ? तं हतवान् / हन्तेः किम् ? ब्रह्माधीतवान् / भूते किम् ? ब्रह्माणं हन्ति / [वृत्रं हन्ति / ] क्विबेव नान्यः / अब्रह्मादेश्च दृश्यते इत्यन्ये / मधुहा / अहतेश्च / ब्रह्मवित् / अक्विप् च / ब्रह्मघ्नः / वृत्रस्य हन्ता / भूत एवार्थात् / तथा कर्मादेः / [कर्मकृत् सुकृत् मन्त्रकृत् / * पुण्यकृत् / पापकृत् / ] त्रिविधो नियमोऽधातुः / अन्यतोऽपि / शास्त्रकृत् / अकृञोऽपि दृश्यते / मन्त्रवित् / अक्विप् च / मन्त्रकारः / कर्माप्यतोऽग्नेरिह चेः / अग्न्याप्याच्चिञस्तथा / अग्निचित् / अनग्नेः / शालाचायः / आप्याच्चित्रः क्विप् न / इहेति आप्यकारकेऽग्नौ चार्थे / श्येन इव चीयते स्म, श्येनचित् / इष्टकाचयः किम् ? क्वचिद् रथचक्रचित् / सोमाप्यात् सुञस्तथा / सोमसुत् / असोमात् तद् दृश्यते / सुरासुत् / अक्विप् / सोमं सुतवान् / एभ्यः क्विबुक्तः / भूते क्विबेव नान्यः सुञः दृशश्चाप्यात् / सुन्वा / मेरुदृश्वणपरलोकदृश्वानौ / राजाप्यात् सहत्वे कृत्रः युधेश्च ण्यन्तात् / राजानं कृतवान् योधितवांश्च / राजकृत्वा / राजयुध्वा / सहकृत्वा / [सहयुध्वा / ] यथासङ्घ नेष्टम् / वनिबेव यजः / यज्वा / यज्वानौ / एतदत्र बहुलाधिकारात् // 2 // प्रत्यक्षलक्षणे व्यभिचारोपदर्शनमयुक्तम् / यदाह लक्ष्माविरुद्धं तु समीक्ष्य लक्ष्यं कातन्त्रलक्ष्मापि समर्थनीयम् / सल्लक्ष्मवाच्यं न तु तद्विरु द्धैर्लक्ष्यैः सता तज्ज्ञखसूचिदृश्वैः // 3 // (105) अच्तृच्ण्वु / [4 / 1 / 11 / 5 / ] कर्तरि धातोर्बहुलं स्युः /