________________ 300 पञ्चग्रन्थी व्याकरणम् (90) विण्डुघभजुहिभ्याम् / [ 4 / 1 / 9 / 10 / ] तथा स्तः / [अर्धं भजते,] अर्धभाक् / कामदुघा धेनुः / धर्मदुघा / न च / कामधुक् // 9 // आवश्यके कर्तुरिवाद् व्रते णिन् साधोरजातेः सतते च शीले / ब्रह्मन्वदेः प्रत्युद आसृ मन्यात् स्वे खश्स्पृशश्चानुदकात् क्विनाप्ये // 4 / 1 / 10 // वृत्तम् / / (91) आवश्यके / [4 / 1 / 10 / 1 / ] अवश्यभावगतौ धातोः परो णिन् स्यात् / दायी / अवश्यंहारी // (92) कर्तुरिवात् / [4 / 1 / 10 / 2 / ] कर्तुपमानाच्च धातोः / उष्ट्रकोशी / ध्वाङ्क्षविरावी / कर्तुः किम् ? शालीनिव कोद्रवान् भुङ्क्ते / इवात् किम् ? उष्ट्र: कोशति // (93) व्रते णिन् / [4 / 1 / 10 / 3 / ] अर्थित्वानिवृत्तौ सुपो धातोः / स्थण्डिल एव शेते, स्थण्डिलशायी / अश्राद्धभोजी / (94) साधोः / [4 / 1 / 10 / 4 / ] धातोः / साधुकारी / साधुदायी / अशीलेऽपि // (95) अजाते: सतते च शीले / [4 / 1 / 10 / 5 / ] आभीक्ष्ण्यतत्स्वभावयोरजातिसुपोर्धातोः / क्षीरपायिन उशीनराः / उष्णभोजी / अजातेः किम् ? ब्राह्मणानामन्त्रयिता / न च / कुल्माषखादाः / / (96) ब्रह्मन् वदेः / [4 / 1 / 10 / 6 / ] अशीलेऽपि / ब्रह्मवादी / अल्लुक् च्छन्दोर्थम् / (97) प्रत्युद आसृ / [ 4 / 1 / 107] तथा / प्रत्यासारी / उदासारी // ( 98) मन्यात् / [ 4 / 1 / 10 / 8 / ] तथा / दर्शनीयमानी / स तस्य पटुमानी / स्य किम् ? पटुमानः // (99) स्वे खश् / [4 / 1 / 10 / 9 / ] आत्ममाने खश्च णिन् / पण्डितमात्मानं मन्यते, पण्डितमानी / पण्डितंमन्यः / श्रिमन्यं श्रियंमन्यं वा कुलम् // (100) स्पृशश्चानुदकात् क्विन् / [4 / 1 / 10 / 10 / ] सुपः स्पृशेः क्विन् स्यात् / घृतस्पृक् / मन्त्रस्पृक् / नेह / उदकस्पर्शः / क्विनः कुत्वं चकारात् / ऋत्विक् / स्रक् / दिक् // (101) आप्ये / [ 4 / 1 / 10 / 11 / ] परार्थम् // 10 // कङ्क्सौ समानान्यत्यदो दृशोऽपीवाद् विट् सनक्रङ्खनजङ्गमोऽदः / क्रव्यादनन्नात् क्विबनाद्वनिप्विच्क्वनिप्मनोऽच् तृण्वुयुणिन्सणाः स्युः // 4 / 1 / 11 // वृत्तम् // 101) कङ्क्सौ समानान्यत्यदो दृशोऽपीवात् / [4 / 1 / 11 / 1 / ] समानाद्युपमानाद् दृशोऽपि क्विन् स्याद् आप्ये कसौ च / समान इव दृश्यते / सदृक् / सदृशः / सदृक्षः / अन्याहक / [अन्यादृशः / अन्यादृक्षः / ] त्यदः / त्यदादि / त्यादृक् / [त्यादृशः / त्यादृक्षः / ] यादृक् / [यादृशः / यादृक्षः / ] एभ्यः किम् ? वृक्ष इव दृश्यते / इवात् किम् ? स दृश्यते /