________________ चतुर्थोऽध्यायः प्रथमः पादः 299 तथा प्रपाप्रदः / पथिप्रज्ञः / प्र किम् ? गोसम्प्रदायः // 1 // सुप्यातः सुप: / द्विपः / समस्थः / सुप् किम् ? स्थाता / रमः / गोदः / कम्बलदः / दिटप्रादि किम् ? गोसंदायः / आह्वामः किम् ? स्वर्गाह्वायः / तन्तुवायः / धान्यमायः / गोसंख्यः / पशुसंख्यः / असुपोऽपि प्री आदेः कः, नाजादि / प्रियः / इगुपान्तात् / विक्षिपः / उत्किरः / कात् प्रादेरात् / प्रस्थः / सुग्लः / ज्ञः / प्रज्ञश्च / वृद्गणान्ते / श्वपचादेर्नाण् / देवादेर्न कः / एवं सर्पः सूदः // 2 // ___नर्त इत्यादि / [दर्श / कोप / व्रण / दर्भ / मेघ / ] शीलादेर्नाण् / मांसं शीलयति, मांसशीला / सुखप्रतीक्षा / शालिभक्षा / दुःखक्षमा / पय:कामा / पुष्पार्हा कन्या / धार्होः / धारेः / श्रीधरः / हृतोऽर्मः / अस्थिहरः श्वा / कवचहरो ना / उत्क्षेपाद् यौवनादिर्वयोगतिः / वयः किम् ? वस्त्रहारः / अंशहरः / रिक्थहरः / अनुक्षेपेऽर्थे किम् ? भारहारः / कर्णेजपः सूचकः / स्तम्बेरमो हस्ती चेत् / कर्णे जपिताऽन्यः // 3 // किमादेः कृत्रः / [किङ्करः / [बहुकरः / यत्करः / तत्कर:] नटः / ग्रहेस्तु धनुरादेः / धनुग्रहः इत्यादि [=घटीग्रहः / तोमरग्रहः / यष्टिग्रहः / शक्तिग्रहः / घटग्रहः / अङ्कशग्रहः / लाङ्गलग्रहः / ] . (87) खगमो विहः खड् / [4 / 1 / 9 / 7 / ] सुपो गमः खखडौ / विहायसो विह च निपातनात् / सुतङ्गमः / [तुरङ्गमः] हृदयङ्गमा वाक् / [अमितङ्गमा हस्तिनी / ] भुजङ्गमः / [प्लवङ्गमः / मितङ्गमः / ] विहङ्गमः / [खड् / ] भुजङ्गः / पतङ्गः / विहङ्गः // (88) डः / [4 / 1 / 9 / 8 / ] सुपो धातो मार्थे / पञ्चपात् अत्यन्तदूराच्च अनन्तसर्वात् सर्वत्रपत्तात् सुदुरो डिरर्थे देशे निसोऽन्येऽपि गमोऽन्त पारादाप्यादनोर्डेश्च जने जरातौ / .. ... सोः प्रतो नाम्न्युरगोऽन्यतोऽपि // 1 // गमः / अत्यन्तगः / [दूरगः / अनन्तगः / सर्वगः / सर्वत्रगः / पतगः / सुगः / दूरगः / डिरर्थे / सुखेन गच्छत्यत्र सुगः / निगोर्देशः / निर्गतोऽन्यः / एवम् अन्तगः / [पारगः / ] , अन्येऽपीति दृश्यन्ते / भुजगः / पतगः / विहगः / विहङ्गः / गुरुतल्पगः / परदारगः / ग्रामग इत्यादि / उरगो नाम्नि निपात्यते / अनोर्जनेराप्यात् / स्त्रियमनुजातः, स्त्र्यनुजः / पुमनुजा / : / अप्स जातः अब्जः / मन्दरजः / ईसेरजातेः / खेदजं द:खम / अश्वजातः जातेः / प्रतः। प्रजा / अभिजः / अनुजश्च / अजः / अन्यतोऽपि पराद् दृश्यते / द्विर्जातः द्विजः / सुप्समासेनोक्तः / जातेश्च / ब्राह्मणजः / क्षत्रियजं युद्धम् / बुद्धिजः संस्कारः / यद्वाऽन्यतोऽपि धातोः / वरमाहतवान् वराह: / पटह: / गिरिशः / [परितः खाता, परिखा / आखा / उपखा / तथा प्रह्वः / ब्रह्मष्ठः / परिवाको वा / पञ्चपाद् मतान्तरार्थः / अन्ये अन्यतोऽपि दर्शनात् / अत एवानियमः सूत्रे // (89) णश्चरः / [4 / 1 / 9 / 9 / ] सपः / कल्याणाचारा स्त्री / /