________________ 298 पञ्चग्रन्थी व्याकरणम् मानं द्रोणादि / द्रोणंपचः / [खारिम्पचः / प्रस्थम्पचा स्थाली / मितम्पचा ब्राह्मणी / नखम्पचा. यवागूः / ] तिलन्तुदः / [अरुन्तुदः / विधुन्तुदः राहुः / ] षित् / ललाटन्तपः आदित्यः / अभ्रंकषः [गिरिः / करीषंकषा वात्या / कृलंकषा नदी / सर्वसहः / सर्वंकषश्च / प्रियंवदः / [वशंवदः // ] 2 // वाचंयमः / वाग्यामस्त्वनियमे / असूर्यपश्या [राजदाराः] / [उग्रंपश्यः / ] एको गणः / वृक्षादेर्नाम्नि / पतिंवरा कन्या / विश्वंभरा भूः / रथंतरं साम / शत्रुञ्जयो गिरिः / अरिन्दमो हस्ती / / शgसहः / शतपः / धुरन्धरः / वसुन्धरः / युगन्धरः / भयादेः कृञः / भयङ्करः / [ऋतिङ्करः / / मेघङ्करः / ] क्षेमङ्करः / [मद्रङ्करः / प्रियङ्करः / भद्रङ्करः // 3 // शर्धजहा माषाः / वातमजा मृगाः / तं दारयति, [माद्यति, तापयति, जरयति, इरया माद्यतीत्यर्थे निपात्यन्ते // आशिताद् भुवो भावे करणे चार्थे / आशितस्य भवनं, आशितंभवं वर्तते / आशितो भवत्यनेन, आशितंभव ओदनः / आशितंभवा यवागूः / दुःखमाशितंभवम् / अलमाशितंभवः. . / द्वितीयो गणः // 4 // (86) सुपोऽपि काच्टाः मुच्पच्चरादेः / [4 / 1 / 9 / 6 / ] सुपो वाप्यासुपोऽपि मुचादिपचादिचरादिभ्यः क्रमेण का-अच्-टाः स्युर्माणादेः / अमीषु आर्ये च वृत्तानि च पञ्च-. नखमुचकाकगुही स्तः कुमुदं मूलविभुजाद्यनुपदः स्यात् / शोकात् तुन्दात् परिमृजः नाम्नि व्याघ्रः प्रदाज्ञश्च // 1 / / सुप्यातो हावामः संख्यासुगुपान्तस्कृकाक्षा वृच्छ्वपसोमं पस्पचो देवः सवः सृपः सूदः // 2 // नृद्दर्शकोपव्रणदर्भमेघाः शीलीक्षिभक्षिक्षमिकामितो र्हः / धर्हर्वयोऽनुद्यम आङि शीले कर्णेजपः सूचकहस्तिनौ चेत् // 3 // स्तम्बरमः किंबहुयत्तदः कुः धनुर्घटीतोमरयष्टिशक्ति / घटाङ्कशाल्लाङ्गलतो ग्रहेस्तु सूत्राच्च सूत्रे शमि नाम्नि धातोः // 4 // शित डिरोर्डादरतः संतो वृत् आवायभिक्षां चरतीति सेनाम् / पूर्वात् सृकर्तुस्तु पुरोऽग्रतोऽग्रेः भास्करनान्दीलिपिभक्तिकर्तृ / / 5 / / जङ्घाप्रभाबाहुनिशादिवाऽह: संख्याधनुः क्षेत्रविभान्तचित्र / बह्याद्यनन्ताल्लिबिबल्यायो घटीघटाद् वेतनकर्मणः कुः // 6 // ताच्छील्यहेतावनुकूलतायामश्लोकगाथापदसूत्रमन्त्र-। कुम्भकमेभ्योऽकलहादवैराटाट्टारशब्दाच्च गणः समाप्तः // 7 // नाम्नीति योगः / धनुस्तिलपद्मरथाद्यर्थे ] नखमुचकाकगुहकुमुदमूलविभुज-]आद्याः / आद्याकृत्यर्थः / संस्थः संस्थानात् / शोकाद्याद्यादपनुदादेः / शोकापनुद पुत्रः आनन्दकरण एव / तुन्दपरिमृजोऽलस एव / अन्यत्राणौ / [तुन्दपरिमार्जः / शोकापनोदः / ] व्याघ्रः नाम्नि / न शः /