________________ 297 चतुर्थोऽध्यायः प्रथमः पादः (79) हुस्त्वि पशौ दृतिनाथात् / [4 / 1 / 8 / 5 / ] आभ्यां हजः इ स्यात् / दृतिहरिः, नाथहरिः पशुः / पशौ किम् ? दृतिहारोऽन्यः // (80) स्तम्बशकृत्कुरि व्रीहिवत्सः / [4 / 1 / 8 / 6 / ] आभ्यां कृञः इ स्यात् क्रमेण व्रीहिर्वत्सश्चेत् कर्ता / स्तम्बकरिव्रीहिः / शकृत्करिर्वत्सः / स्तम्बकारोऽन्यः // 8 // मुः ख्यात्मकुक्षेरि फलेग्रहोऽण् तुम्येवादितः खश्ख सुपोऽपि काच टाः / मुच्यच्चरादेः खगमो विहः खड् डो णश्चरो विण्डुधभज्दुहिभ्याम् // 4 / 1 / 9 // वृत्तम् // (81) मुः ख्यात्मकुक्षेः / [4 / 1 / 9 / 1 / ] आभ्यां कृञः खिः मुः स्यात् / आत्मभरिः / (82) इ फलेग्रहः / [4 / 1 / 9 / 2 / ] फलानि गृह्णातीति इ स्याद् , एत्वं च निपात्यते / फलेग्रहिः // (83) अण् / [4 / 1 / 9 / 3 / ] आप्याद् धातोः कर्तर्यण् स्यात् / कुम्भं करोतीति कुम्भकारः / काण्डलावः / वेदाध्यायः / अम्भोभिगामी / नेहानभिधानात् / ग्रामं गच्छति / आदित्यं पश्यति / हिमवन्तं शृणोति // (84) तुमि / [ 4 / 1 / 9 / 4 / ] आप्याद्धातोः तुम्विषयेऽण् टकः / गां वाऽनुव्रजति, गोदायो व्रजति / शास्त्राध्यायो याति / आप्यात् किम् ? पक्तुं याति // .. (85) एज्वादितः खश्ख / [4 / 1 / 9 / 5 / ] लुप्तत्यन्तत्वाद् एजयत्यादेराप्यात् कर्तरि खश्, वृआदेः ख स्यान्नाण् / चत्वारि वृत्तान्यनयो: एजेश्च धेटोऽपि शुनीस्तनाभ्यां मुं चास्य कूलादपि पुष्यतोन्ना- / डीनासिकामुष्टिघटीखरीभ्यः ध्मः पाणिवातात् करपर्वतादेः कूलादुदोरुज्वहतेः वहाभ्रात् // 1 // [पञ्चपात्] लिह: पचो मानमितान्नखाच्च तुदस्तिलारुविधुनो ललाटात् / तपः कषेस्त्वभ्रकरीषकूलात् सहश्च सर्वात् प्रियतो वशाच्च // 2 // वाचंयमस्यानियमे दृशोस्तर्योग्राद्गणोऽयं वृभतृजिदंसहः / तब्धारिधर्नाम्नि भयातिमेघात् कुः क्षेममद्रः प्रियभद्रतोऽण् वा // 3 // शर्धजहो वातमजो भगंदरः पुरन्दरेरंमद चेत् परंतपः / / द्विषंतपः कुञ्जर आशिताद् भुवो भावे तथा स्यात् करणे गणो मतः // 4 // अङ्गमेजयः / जनमेजयः / शून्यादेः धेटः / शुनिन्धयः / [स्तनंधयः / नाडिन्धयः / नासिकन्धयः / मुष्टिन्धयः / खरिन्धयः / पाणिन्धयः / वातन्धयः / ] टिद्ङ्यर्थः / नाड्यादेर्मः / नाडिन्धमः / [नासिकन्धमः / मुष्टिन्धमः / खरिन्धमः / पाणिन्धमः / वातन्धमः / ] आद्याकृत्यर्थः / * को नैभ्यः / एवं नामादेर्धातोः / कूलमुद्रुजः / कुलमुद्वहः / वहंलिहः [गौः / अभ्रंलिहो वायुः] // 1 // पञ्च.-३८