________________ 292 पञ्चग्रन्थी व्याकरणम् टिदप्रादेर्भावे ह्वेयोऽप्रह्वानम् / हवः / भावे किम् ? आह्वायः / कारके न / आङ: / आहयन्तेऽत्र आहवः युधि युद्धे / [युधि] किम् ? आह्वायः / भावे न वर्तते / न्यादेः तथा / निहवः / [अभिहवः / उपहवः / विहवः / ] / न घण् / निपानं कूपतटेषूदकाधारश्चेत् / आहूयन्ते पशवोऽत्र पानाय आहावः / निपातनं किम् ? आह्वायः / हन्तिना सम्बन्धात् टिदप्रादेश्चकाराद् भावे वधः स्यात् / वधो दस्यूनाम् / किञ्च, घातः / तथा घातो उपघाते वर्तते, अटितोऽपि / मूर्ती काठिन्येऽर्थे घनः / अभ्रघनः / दधिघन: / घनं दधि धर्मे धर्म्युपचारात् / अङ्गे घणि पादे / अपघनः / अपघातोऽन्यः / उद्घनः / अध्याधाने दारुकाष्ठे / [तत्र] किम् ? उद्घातः / प्रघणः, गृहांशे [प्रघाणः], बहिरिकोष्ठके / [तत्र] किम् ? प्रघातः // 1 // तथा यथाभिधानम् / अन्तर्घनः [देशविशेषः] णत्वं वा / अन्तर्घणो देशः / देशे वाहीकेषु वाच्ये किम् ? अन्तर्घातः / विट्ठ अयस् स्तम्बाच्च घनः करणेऽर्थे / विहन्यते [अयो] तेन, विघनः / द्रुघनः / द्रुघणो वा / अरिहणादिपदान्तानि वा णत्वम् / अयोधनः / स्तम्बघनः / करणे. किम् ? विघातादि / कः स्तम्बात् तथा / स्तम्बघ्नः / करणे किम् ? स्तम्बघातः / हन्तेः को वा / गोघ्नोऽतिथिः / परेः परो हन्तिरबन्तो घः स्यात् करणे / परिहन्यतेऽनेन परिघः / [लत्वे पलिघः / ] आश्रये सामीप्येऽर्थे उपघ्नः स्यात् / पर्वतोपघ्नः / ग्रामोपघ्नः / उपघातोऽन्यत्र / उद्घः पूज्यो ना / उद्घातोऽन्यत्र / गणेऽर्थे सङ्घः स्यात्, पशूनाम् / सङ्घातोऽन्यत्र / निमित्ते समारोहपरिणाहेऽर्थे / निघाः वृक्षाः / निघाः शालयः / निघातोऽन्यत्र / ग्रहेग्लहेर्वा ग्लहः / अक्षे किम् ? ग्लाहः / इन्धेरपि एधः / खनेस्तथा इकवक-इक-घण-घ-डर-ड एते स्युः / आखनिकवकः / आखनिकः / आखाः / आखनः / आखरः / आखः रञ्जुर्घणि रागः / रजनं रजति. तेन वा रागः / अडि / अनधिकरणे किम् ? रजत्यत्र रङ्गः // 2 // (41) ट्वितोऽथुः / [ 4 / 1 / 3 / 10 / ] धातोष्ट्वितस्तथा अथुः स्यात् / टुवेपृ-वेपथुः / टक्षु-क्षवथुः // 3 // त्रिमो ड्वितोऽथाभिविधौ तु णिण्णट् स्त्र्यन्योन्यकृत्यां क्त्यकणौ क्रियेच्छे / ग्लाहाज्य आक्रोशनोऽनिरङ्क्यप् भिच्छ्यादितो युर्णिविदासघट्टात् // 4 / 1 / 4 // वृत्तम् // (42) किनमो ड्वितोऽथ / [4 / 1 / 4 / 1 / ] ड्वितो धातोस्तथा त्रिमः स्यात् / अथार्थस्तद्वानुभावेन कृतेऽर्थे / डुपच् [पाके / ] पाकेन कृतं पक्त्रिमम् / कृत्रिमम् // (43) अभिविधौ (तु) णिन् / [ 4 / 1 / 4 / 2 / ] क्रियायाः कात्स्येन सम्बन्धे धातोणिन् / प्रज्ञादौ णणिनः स्वार्थेऽण् / साङ्केटिनम् / सांराविणम् / सान्द्राविणम् / अभिविधौ किम् ? संरावः // (44) णट् स्त्र्यन्योन्यकृत्याम् / [4 / 1 / 4 / 3 / ] स्त्रीलिङ्गे [कर्म-]व्यतिहारे धातोर्णट् / टिद् घर्थः / व्यावक्रोशी, व्यावचर्ची वर्तते / बहुलमेव / व्यतीहा, व्यतीक्षा वर्तते // (45) क्त्यकणौ / [4 / 1 / 4 / 4 / ] स्त्रियामकर्तरि कारके भावे च क्तिः अकण् धातोः स्यात् / भावे / चितिः / कृतिः / करणे- श्रुतिः / इष्टिः / स्तुतिः / बहुलार्थे वुण् रोगाख्यायां