________________ चतुर्थोऽध्यायः प्रथमः पादः 291 अनयः घृतोदङ्कः / अनुदके किम् ? उदकोदञ्चनः // 4 // (37) अकर्तृभावे / [4 / 13 / 6 / ] अकर्तरि कारके भावे च धातोघण् स्यात् / प्रास्यन्ति तमिति प्रासः / पद्यतेऽनेनार्थः पादः / दास्यतेऽस्मै दासः / आहरन्त्यस्माद् रसं वा आहारः / अधिक्रियन्ते क्रिया अत्र आधारः / भावे / पचनं पाकः / त्यागः / अकर्तरि किम् ? पक्ता / (38) ऋभ्योऽप् / [4 / 1 / 3 / 7 / ] अकर्तृभावे घण् / अत्र षट्पात् // ऋयुग्रहो गम्वृदृवस्रणात् कत् ट्मद्व्यधोऽजः समुदः पशोर्वेः / हर्षे प्रसंमद्प्रजने सृ संट्विन्युपर्यमोवन्हसटोनिंगद्गद् / स्वन्पठक्वणोऽन्त्याट्टिरितो विपञ्च्याः न्युजव्रजश्चर्वहपण्वृषादेः // 1 // ऋकारान्ताद् योः इवर्णोवर्णान्ताद् ग्रहादेश्च / शरः / करः / जयः / नयः / यवः / पवः / गमः / निगमः / वरः / दरः / वसः / रणः / कङ्कितः / प्रादेरदः / प्रघसः / विघसः / प्रादेः किम् ? घासः / ट्मद्व्यधः / टिदप्रादिभ्यः / [विद्यामदः / धनमदः / कुलमदः / टित् किम् ? उन्मादः [अव्याधः / ] अजः समुदः / समजः पशूनाम् / समूहप्रेरण इत्यर्थः / पशौ किम् ? समाजः विदुषाम् / उदाजः शकुनीनाम् / वेः / व्यजो पशौ च / हर्षेऽर्थे प्रसं मदः / ट्मदोऽपवादः / प्रमदः, सम्मदः कन्यानाम् / हर्षे किम् ? प्रमादः / [सम्मादः / प्रजने / गर्भग्रहणेऽर्थे सर्तेः / / गवामुपसरः / उपसारोऽन्यः / रिद् वा यमः / सं-टिदप्रादि वि-नि-उप-विशेष्यात् / संयमः / संयामः / एवं [यमः / यामः / वियमः / वियामः / नियमः / नियामः / उपयमः / उपयामः / ] एभ्यः किम ? आयामः / वन्हसटः / रिद्रितो वा प्रादेः स्वनः / प्रस्वानः / [प्रहासः / ] रिद वा नेः गदादेः / निगदः / [निनदः / निस्वनः / निपठः / निक्वणः / ] निगादः / [निनादः / निस्वानः / निपाठः / निक्वाणः / ] अन्त्याट्रिरितः क्वणोऽप्रादेर्वा / क्वणः / [क्वाण:] तथा विपञ्च्याः सम्बन्धे रिद् वा / प्रक्वणः, [प्रक्वाणः] वीणायाः वादनकः / पुना रिदटिदर्थम् / * न्युब्जादेः / न्युब्जः / व्रजन्ति तेनात्र वा व्रजः / वहन्ति तेन वह: / रिद् वा / प्रवाह: / आपणन्त अत्र आपणः / वृषादेः / वृषभीकषगोचरसञ्चरादेः / वर्षम् / भयम् / न तोऽतः / कषः / निकषः / गावश्चरन्त्यशनेन वा गोचरः / सञ्चरः, इत्यादि // (39) पचादेः / [ 4 / 1 / 3 / 8 / ] घः तथा / निपकः / वकः / घिति कुत्वम् / छादेर्धे हुस्वः / उरश्छदः / एत्याकुर्वन्त्यत्र आकरः / कृतकृत्वाऽनयोरत्राकृतित्वात् (40) हवाः / [ 4 / 1 / 3 / 9 / ] हवादयोऽबन्ता बहुलं निपात्यन्ते / हवादावपि वृत्तं षट्पात् ड्भावे हवाऽऽङो युधि निव्युपाचे निपानमाहावते वध्वघातः / मूर्ती घनाङ्गेऽपघनोद्घनोऽध्याधाने गृहांशे प्रघणप्रघाणौ // 1 // देशे तथान्तर्घनविद्वयोभ्यः स्तम्बाद् घनः कः करणे परेघः / हन्तेरु पघ्नाश्रय उद्घ पूज्ये सङ्के गणेऽर्थे निमिते निघः स्यात् / ग्लहोऽक्ष एधेकवकेकघण्घाश्चात्तः खनोडो घणि वाऽडि रागः // 2 //