________________ 290 पञ्चग्रन्थी व्याकरणम् द्यूतेऽर्थे रिद् वा / परिणायेन शारीन् हन्ति / द्यूते किम् ? परिणयः / तो द्रः / ट्वितोऽप्रादेर्वा / अत्रान्नित्यम् / [प्रदावः / ] परिद्रुतो वा नियः, नायः, नयः / अवनायः / उन्नायः / उन्नयः // 1 // मानेऽर्थे सर्वधातोः / तण्डुलावक्षायः / एकस्तण्डुलनिश्चयः / द्वौ शूर्पनिष्पापौ / द्वौ कारौ / रिद् वा / एका तिलोच्छितिः / माने किम् ? एको निश्चयः / पणः / मानेऽनात्वं निपात्यते / शाकपणः / मूलकपणः / पाणोऽन्यत्र / ट्वुच्छिः / टितः श्रियो मित्योरिदुतो वा / श्रायः / उच्छ्रायः / उच्छ्रयः / वुद् किम् ? प्रश्रयः / एवम् अभिलावः / निष्पावः / उत्पावः / अभ्यादेः किम ? लवः / विलवः / पवः / टिद् वेड् / इडो घण् टिद् वा स्यात्, ट्यर्थम् / अध्यायः / उपेत्याधीयतेऽतः उपाध्यायः / तद्भार्या उपाध्यायी / उपाध्यायनी / उपाध्याया / क्रमे पर्यायेऽर्थे व्युपाभ्यां शीङः / तव राजविशायः / मम राजोपशायः / तव राजानमुपशयितुं परिपाटीत्यर्थः / क्रमे किम् ? विशयः / [उपशयः / ] न्युदोः गृतः / निगारः / [उद्गारः / ] न्युदः किम् ? गरः / नीवारेति निपात्यते धान्येऽर्थे / नीवाराः व्रीहयः / धान्ये किम् ? निवरा कन्या / कपि कृतोऽपि न्युदो धान्ये / निकार उत्कारो [वा] धान्यस्य, विक्षेपः / धान्ये किम् ? पुष्पनिकरः / पुष्पोत्करः / हिंसार्थान्नाभिधानम / वेः कराप्येऽस्तेये / पष्पप्रचायः / हस्तप्राप्ये किम ? वक्षाग्रे फला फलप्रचयः / अचौर्ये किम् ? पुष्पप्रचयं करोति हस्तेन चोरः / चिकि च देहादौ / कायो देंहः / आकायोऽग्नेः / गोमयनिकायः / [ऋषिनिकायः / चिखल्लिनिकाय: / ] ब्राह्मणनिकायः / एषु किम् ? चयः // 2 // सङ्के वा / च्येऽनधोऽधोऽर्थेऽनौत्तराद्यर्थे चिकि च / नृनिकायः / अनधोऽधः किम् ? सूकरनिचयः / वेः क्षुश्रुभ्याम् / विक्षावः / [विश्रावः / ] वेः किम् ? क्षवः / [श्रवः / ] प्रात् मुद्रुभ्याम् / प्रस्रावः / [प्रद्रावः / ] प्रात् किम् ? स्रवः / [द्रवः / ] स्तृतः / प्रादयज्ञेऽर्थे / मणिप्रस्तारः / यज्ञे, बहिषां प्रस्तरः / प्रात् किम् ? इष्टकानां स्तरः / प्रथने चार्थेऽ वेः / पटस्य विस्तारः / शब्दे वाग्विस्तरः / छन्दोभिधानात् / आस्तारः / प्रास्तारः / विष्टार: पङ्क्ति[च्छन्द:] / त्रश्च रवात् / रितोऽवात् तृतो वा / स्तृणातेनित्यं चानुकृष्टत्वात् / अवतारः / अवस्तारः / अवात् किम् ? तरः / प्रतरः / मखेऽर्थे / संस्तावः / यज्ञे किम् ? संस्तवः / प्रादयज्ञेऽपि / प्रस्तावः / प्रात किम ? स्तवः / अथ उत्तरपरिग्राहः / दक्षिणपरिग्राहः / मखे किम ? परिग्रहोऽस्य / समः / संग्राहो मुष्टौ / मुष्टौ किम् ? सङ्ग्रहोऽन्नस्य // 3 // . न्यवात् / निग्राहः, [अवग्राह:] वृषलस्ते भूयात् / क्षेपे आक्रोशे / निग्रहश्चौरस्य / अवग्रहः पदस्य / लिप्सति प्रात् / पात्रप्रग्राहेण चरति भिक्षुः पिण्डार्थी / स्रुवप्रग्राहेण चरति द्विजो दक्षिणार्थी / लिप्सायां किम् ? प्रग्रहोऽस्य / वणिग्वा / वणिग्विषयलिप्सायां च / तुलाप्रग्राहेण चरति वणिक् / वाऽधिकारार्थः / रश्मौ / अश्वादिरज्जौ च / प्रग्राह: / प्रग्रहः / अवात् [वर्षाविबन्धे] / अवग्राहो वृष्ट / वर्षविबन्धे किम् ? अवग्रहः / उत्तः / उद्ग्राहः / [उद्ग्रहः / ] उदः किम् ? ग्रहः / निअदः घण् वा निपात्यते / न्यादः / निघसो वा / वृञः प्रावारः / प्रवरः / आच्छादनेऽर्थे किम् ? प्रवरः / आङ् प्लुरुभ्यां वा / आप्लावः / [आप्लव: / आरावः / आरवः / यथासङ्ख्यं न्यायो नयेऽर्थे, पर्यायो क्रमेऽर्थे निपात्यते / न्ययः पर्यायो वा / वेत्येके / अन्यत्र न्ययः पर्ययः / दृजभ्याम् / दृणन्ति दारयन्ति दीर्यते वैभिर्दाराः / एवं जारः / आनायो मत्स्यानाम् / जाले किम् ?