________________ चतुर्थोऽध्यायः प्रथमः पादः 289 ____ मघवन् इत्यादि / इमन् धातोः / भृ / भरिमन् इत्यादि / इमिर्गमादेः / गमिन् / पथिन् / मन्थिन् / ऋभुक्षिन् / आगमिभूभ्यां णित् / आगामिन् / भाविन् / परमे स्थ: कित् / परमेष्ठिन् / छ्दादेरिसिः / छर्दिष् / अर्चिष् / 'इस्मन्त्रन्क्विषु [च]' [पा. अ. 6 / 4 / 97] [इति न] दीर्घः [छ्दा-] दिषु / सपिष् / शोचिष् / हविष् / रोचिष् / एवं जातादेः ज्योतिष् इत्यादि / उसिः प्रादेः / परुष् / वपुष् / त्रपुष् // 44|| जतुष् पित् / धनुष् / यजूष् / अरुष् / यथासङ्ख्यं इणो णित् चक्षः शित् उसिः / आयुष् / चक्षुष् / वसेः कनस् / उशनस् / इण्विधेरसि / ऊधस् / वेधस् / चन्द्रान्मो डित् / चन्द्रमस् / पयस्पुरसोर्धाश्च / पयोधस् मेघः / पुरोधस् पुरोहितः / अगिवसेनित् / आगस् / वासस् / दुषोरसन्तस्य दोष भुजः / यजेः शान्तश्च / यशस् / जश्चान्त उषे / ओजस् / अमे भुगागमश्च / अम्भस् / इणश्योपडागमौ च / एनस / शेपस / स्ररीभ्यां तट च / स्रोतस / रेतस / छदेनम च / छन्दस / ऋरिति अति, उर्च / उरस् / शुट चार्थे / व्याधावर्थे / अर्शस् / नुट् चोदकेऽर्थे / अर्णस् जलम् / षट्पदी गाथा // 45|| उणाद्याः समाप्ताः // (36) श्रादेश्च नाना घण् / [4 / 1 / 3 / 5 / ] वृत्तत्रयं पञ्चपदीह शृवायुवर्णेऽपगते रुजस्पृश् व्याधौ विशो मत्स्यबलस्थिरसृ / रिद् वा समुद्रद्रुयुदोः क्रुभूवोऽवज्ञा परे तनियष्ट्रतो द्रः // 1 // माने पणः गुच्छ्यभिलूनिरुत्पू: टिद् वेड् क्रमे च व्युपशीन्युदो ग्रः / नीवारधान्ये कपि चे: कराप्येऽस्तेये कि देहे चिति राशिवासे // 2 // सङ्घन बोधः क्षुश्रुवोश्च वेः प्रात् स॒दो अयज्ञे प्रथनेऽध्वनो वेः / छन्दोभिधात्रश्च रवान्मखे संस्तोः प्रात् परिग्राहिसमोऽथ मुष्टौ // 3 // क्षेपे न्यवा लिप्सति प्राद् वणिग् वा रश्माववाद् वर्षविबाध उत्तः / न्यादौ वुराच्छादन आप्लुरुभ्यां स्यान्न्यायपर्यायनये क्रमे दृ- / जानाय जालोऽनुदके धुदङ्कः // 4 // शृतो वाय्वाद्यर्थे घण् / शारो वायुः, वर्णश्च / अपगते निवृत्तेऽर्थे / निशारः आवरणः / एषु किम् ? शरः अप् / रुजतीति रोगः / एवं स्पर्शः / वेशः / व्याधिविशोऽत्र किम् ? रोक्ता / [स्प्रष्टा / वेष्टा / ] व्याधादौ कर्तरि / अतीसारो व्याधिः / विसारो मत्स्यः / सरति तेन वा सारो बलम् / सरति . कालान्तरम् / [इति] सारः स्थिरोऽर्थः / चन्दनसारः / एषु किम् ? सर्वा / क्वातोऽप् / रिवेति / अतः परो रिद्विधेः वा स्यात् / समुद्र रुयुदोः / द्रुयुदुभ्यां समुद्ध्यां नित्यं द्र इति / टिद्प्राद्यर्थः / रिवार्थः / ततोऽप्रादिभ्यो वा / संद्रावः / [संयावः / संदावः / ] उद्मावः / [उद्यावः / उद्दावः / ] सं नेच्छन्त्येके / दादावः / [दाद्यावः / दादावः / ] द्रवः / [यवः / दवः / ] क्रुभूवः / किदृतः / प्राद्यप्रादेः रुभुवः / संरावः / प्रादेः किम् ? रवः / भावः / अप्रादेः किम् ? प्रभवः / कथं प्रभावोऽनुभावः ? अप्रादेघणेवेति नियम आदिसमासो युज्यते / अवज्ञा परेः / परिभुवोऽवज्ञार्थे रिद् वा / परिभावः / परिभवः / अवज्ञा किम् ? सर्वतोभवनं परिभवः / द्यूतनियः / परेर्णीङ: पञ्च.-३७