________________ 288 पञ्चग्रन्थी व्याकरणम् लोत्रम् अपहृतधनम् / पोत्रं शूकरमुखनासा, इत्यादि / [ऊर / ] कर्पूरः / वल्लूरः / खजूरः इत्यादि. / [ऊल I] पिञ्जूलः पक्षिजातिः / रगेरन्येषामिति दीर्घः / लाङ्गलः, इत्यादि / [कल / ] कित् अलः / शबलं चित्रं कमलम् / वृषलः शूद्रः / उदः पाते, उत्पलम् / पटलम् / छ:, छलम् / कललम् / केवलम् / शकलं खण्डम् / शमलम् असुरिरित्यादि / सर्ते पिशन् / सपिशम् अग्रमांसम् / चद्मादेस्त्रक् / चित्रम् / अन्त्रम् / मित्रम् / पूजः पु च / पुत्रः / तमेऽलिण् / ताम्बूलः / पतिचण्डेरालञ् / पातालम् / चाण्डालः / कुणिप्रिभ्यामालक् / कुणालम् / प्रियालः तरुविशेषः // 38 // कालकूटः / कुड्मलं मुकुलम् / अलं मगेः / मङ्गलम् / वलवालौ स्तः, शीङः / शैवलम् / शेवालं बालतृणम् / वमादेः शक् / वंशः / कशः / वृशं मूलम् / भृशम् / अलान्ते पल्वलादि निपात्यते / पलेः पल्वलम् / चषिमाङोः / चषालः / माला / शिथिलम् / तमेः तण्डुलः / शगन्ते शके: कीनाशः कुणपः / दसे: दासः कैवर्तः / अङ्केरुशन् / अङ्कुशः / इले: इल्वला, इत्यादि // [39] भण्डादेः ऊषः भाण्डूषः व्याघ्रः / अङ्गषः पक्षी / पीय्मंचु सौत्रौ / पीयूषं देवोऽमृतं च / मञ्जूषा / ऋ अरुषः चञ्चः / पृणाते कुषः / पुरुषः / कृतृभ्यामीषः / करीषः / तरीषः समुद्रः / शू अविपृणां शिअम्बपुर् च / शिरीषः / अम्बरीषं भ्राष्ट्रम् / पुरीषम् इत्यादि / रुहादेः / टिदिषः रोहिषो मृगः / अव्यथिषः सूर्यः / अविषः समुद्रः / किले किल्बिषं पापम् / टीषान्तं निपात्यते / गमेर्गवादेशश्च / गविषः समुद्रः / तरीषी नदी, इत्यादि / सः मन्यादेः / मांसम् / कक्षम् // 40 // ___ वर्षम् / तर्षः समुद्रः / कंसः / हंसः / वत्सः / ऋषादेः सक् / ऋक्षम् / वृक्षः / स्नुषा वधूः / चमादेरसः / चमसः [सोमपानभाण्डम् / अवस:] सूर्यः / यवसः गोभक्तम् / पनसः / रभसः / अदसो व्रीहिः / तुडागमश्च / [अतसः / ] वेतसः / [पतसः] वह्निः / कृतो पासः / कार्पासः / सिचेः कः, दुगागमो हश्चान्तः / सिंहः / श्च्यादेः क्विप्, दीर्घश्चान्तः / श्रीः सुवर्णम् / स्त्रः / जूः पिशाचः / [कट-] प्रः कामचारः / वचिप्रच्छेश्च / स एव / वचोऽथ न यणिक / वाक् / प्राट् शिष्यः / गमेढ़े च / जगत् // 41 // परिवाट निपात्यते / क्विपि / वशिवणेः किजिः / वशिक् तन्तुवायः / वणिक् / उरुच्चारणार्थः / स्रुगतौ, अतश्चित् / स्रुच् / मृङ् उतिः / मरुत् / गृत उति, मुद् वा न च वेत्यर्थः / गर्मुत् हेम / गरुत् / तदस्यास्ति, गरुत्मान् / स्रादेरितिः / सरित् / तडित् / रोहित् / योषित्; युषः सौत्रः / हरित् / शृतोऽदिः / शरत् / दृतः षुगागमश्च, ऋकृच्च / दृषद् / त्यजादेः / त्यद् / यद् / तद् / मगागमश्च युषश्चासरदिश्च / युष्मद् / अस्मद् / कनि: वृषादेः / वृषन् गौः / राजन् / धन्वन् मरु-[प्रदेशः] / तक्षन् / प्रतिदिवन् दिवसः / धुवन् / मन् धातोः / भासः भस्मन् / जनेर्जन्मन् / वृतेः वर्त्मन्, इत्यादि / पृषादेः शतृ / पृषत् मृगः / बृहत् वयुनम् / महत् / मातरिपूर्वस्य श्वयतेः कनिनन्तो मातरिश्वन् निपात्यते / षट्पदी गाथा // 42 / / व्ययतेः व्योमन्, इत्यादि मनन्तकनन्तं निपात्यते / आदिशब्दात्-॥४३।।