________________ चतुर्थोऽध्यायः प्रथमः पादः 287 पुञ् / पर्जन्यः / धाञ् / धिष्ण्यं गृहम् / शके: [? शलेः [क:] / शक्यं [? शल्कं] तुषारोपणम्, इत्यादि / मादेर्यः / माया / छाया / सस्यं सारम् / सव्यो वायसः [? वामः] यान्तं जायादि निपात्यते / जनेर्जाया / कमेः कन्या / स्यदेः [? सन्धेः] सन्ध्या / वधेः वन्ध्या, इत्यादि // 32 // मदादेरुरः / मन्दुरा / अङ्करः / चतुरः / वाशुरा निशा / मथुरा / स्वसेः / सु / स्वरः / [असे:] असुरः / उर: दृदङ्घ च / दर्दुरः / मुकिव्यधि: उर: कित् / मुकुरो दर्पणः / विधुरो विगुणः / किदिर: बन्धादेः / बधिरः / [रुधिरम् / ] तिमिरम् / मदिरा / स्थिरः / छिदिर: / अजिरो वायुः / शृस्खदेः / शिशिर / खदिरः, इत्यादि / शकादे रक् / शक्रः / तक्रम् / वक्रम् / चन्द्रः / चक्रम् / मन्द्रः / शुभ्रम् / वृत्रम् || [33||] नीरम् / वीरः / छिद्रम् / क्षिप्रम् / दहः तरुणः / श्वित्रं सितं कुष्ठम् / तृप्रः पुरोडाशः / मुद्रा / अमादेः दीर्घश्च / आम्रः / दूरम् / जीरो वह्निः / ताम्रम् / रगन्तम् उद्रादि निपात्यते / उन्देः उद्रः पशुजातिः / अभ्रम् / उस्रम् / भद्रम् / उचे: उग्रः / कृतेः कृच्छ्रम् / ददेर्दर्भः [? दभेदभ्रः / ] अचेः [? अगे:] अग्रः / शुचे शुक्रः / जस् एचामाद्यर्थम् / भियो भेरी / गुरे: गौरः वर्णः / वप्रः प्रासादपः / धादे रक् / धीरः / सूरः / सुरा / धुरा / षिमिचेः ङिदी चान्तः / सीरं हलम् / मीरो जलधिः 1 चीरम् / वृधादे रः / वध्रम् / इन्द्रः / वज्रम् // 34 // स्वादे रक्, टित् कित् त्रः / सूत्रम् / उष्ट्र: / मूत्रम् / वृञादेरत्र / वरत्रा / कडवं भार्या / लत्वेन कलत्रम् / नक्षमतौ / नक्षत्रम् / अमत्रम् / मदादेः सरः / मत्सरः / अक्षरम् / वत्सरः समाः / संवत्सरः / क्रादे: कित् / कृसरः / धूसर: रुक्षः / तसरं कुविन्दद्रव्यम् / अरो भ्रमादेः / भ्रमरः / वासरो दिनम् / देवरः / बदरम् / आरः कडादेः / कडारः पिशङ्गम् / अङ्गारः / मन्दारः / मणिः भृङ्गारः / कञ्जारो यूपः / मार्जारः / शृङ्गारः / कमेरारन् उच्च / कुमारः // 35 / / . शृतः करः / शर्करा / पुषः कित् / पुष्करम् / क्षीय ईरड् / क्षीरम् / शौडिकृशृभ्य ईरः / शौडीरं गर्वः / करीरः / लत्वेन करीलः वंशाङ्करः / शरीरम् / वशेः कित् / उशीरं वीरणः मूलम् / ईरान्तं गम्लु [? गाधृ] णेः / गम्भीरम् / [गभीरम् / ] कुम्भीरम्, इत्यादि / ऊर: मसेः, मसूरः / जनेररः, ठान्तश्च / जठरम् / वदेः ठो वा / वठरः / बदरी / पावरत् इच्च, वश्च / विवरः स्थाली // 36 // चक्कठोरोरः / चकोरः / कठोरः / छडोरः / घुणेः घोरम् / ट्वरः / श्रादेः / शर्वरी रात्रिः / कड्वरं दधिविकारः / चर्चरः, चत्वरम् अङ्गनम् / ट्वरान्तं पीवरादि निपात्यते / पीवरं स्थूलम् / चिञ् चीवरं दृतिवरं हीनजातिः / णीञ् नीवरं गृहम् / गह्वरम् / छिवरी धूर्तः / छत्वरो निकुजाम्बर इत्यादि / टित् त्रः दाधातः / धात्री / दात्रम् / पात्रम् / पत्रम् / पोत्रम् / तोत्रम् / नेत्रम् / वस्त्रम् / छत्रम् / भस्त्रा, जादौ / शास्त्रम् / शस्त्रम् इत्यादि / कुवः किद्ररः / कुररः // 37|| प्रत्येकमादियोगात् / प्वादिरादिकृपादिपिञ्जादिशबादिभ्यो यथासङ्ख्यं इत्र-उत्र-ऊर-ऊलच्कलाः स्युः / चिच्छन्दोर्थम् / [इत्र / ] पवित्रम् / वहित्रम् / कटित्रम् / इत्यादि / [उत्र / ] रोत्रम् /