________________ 286 पञ्चग्रन्थी व्याकरणम् मृगः / अविनः [अध्वर्युः / ] स्तेनः / श्येनः / दक्षिणा / द्रविणम् / वृजे: / वृजिनम् / कुटिनं पापं च / अजेरजिनं चर्म // 24 // . रईरिणम् उषरम् / वपेविपिनं गहनम् / तुहेर्तुहिनम् / महेमहिनं महत्त्वम् / रशादेर्युः / रशः सौत्रः / रशना / वरणः वृक्षविशेषः / रोचना / रवणो जलकुम्भः / हन्तेर्जघश्च / जघनं कटिः / इतो रजादेः क्युट् / रजनं रङ्गः / रजनी रात्रिः / किरणः / वृजनम् अन्तरिक्षम् / अन्येषामपि, दीर्घः / पूरणः समुद्रः / मन्दनम् / निधनम् / धृषेरित्वम् / धिषणा बुद्धिः / ब्रधादेर्नः / ब्रनो रविः / पर्णम् / वस्नो मूल्यम् / तर्णः समुद्रः / कर्णः / वर्णः / धानाः // 25 / / एवं सेना / द्रोणः / [स्वप्नः] स्वपनम् / नक् उषादेः / उष्णम् / इनः स्वामी / ऊनो विकलः / धेनः समुद्रः / कृष्णः / पूर्णः / रतः सौत्रः / रत्नः / बुघ्नः / उन दार्यादेः / दारुणः / यमुना / अर्जुनः / करुणा / वरुणः / लत्वेन, वलुनः / शकुनो निपातनम् / गुरिराभ्यां फकइफौ / लत्वेन, गुल्फः, प्रपदम् / रेफः / सर्तेरपः क्षु च / सर्षपः / अपान्तम् उलपादि निपात्यते / सर्तेः [? वलते:] उपलं जलं [? कोमलतृणम्] / विटपः // [26 / / ] विशः विष्टपः स्वर्गः / वशेः विशिपं गृहम् इत्यादि / पृपातलेभ्यः पः / पर्पं गृहम् / पापम् / तल्पं शय्या / ऊ चान्तः स्तौतेः / स्तूपः / युकुसूनां कित् पः / यूपः / कूपः / सूपः / पान्तं बाष्पादि निपात्यते / वसेः वाष्पं लतृणम् / शिलेः शिल्पम् / रौतेः रूपम् इत्यादि // 27 // श्लिषादेः स्त्रक् निपात्यते / श्लक्ष्णम् अल्पम् / कृणः कृत्स्नम् / रसेः रास्ना ओषधिः / स्यतेः [? सस्तेः] साना ग्रीवास्थायीति जाता [चर्मकम्बली] / स्थूणा / वीणा / तीक्ष्णम् इत्यादि // 28 // गृश्रोवलिघश्विसिकण् / खटेः क्वन् / खट्वा / क्वनन्तं ग्रीवादि निपात्यते / वल्लादेरभः / वल्लभः / रासभः / करभः / गर्दभः / शरभः / लत्वेन शलभः // [29 // ] किच्चाभः वृषिऋषेः / वृषभः, ऋषभः, श्रेष्ठः / गृभ्यां भः / गर्भ: / दर्भः / इणः असौ भः, कित् / इभः करी / ऊमः गुधेः / गोधूमः / चरिप्रथेरमः / चरमः / प्रथमः / क्ष्यादेर्मः / क्षेमम् / यामः प्रहरः / यक्ष्मः क्षयो रोगः / नेमम् अधस्तात् / धृ / धर्मः / ऋ / अर्मः अक्षिरोगः / सोमः / होमः / स्तोमः / पद्मम् / क्षोमम् अतसी वासः [वस्त्रम् / भामः क्रोधः] रविश्च / आ चातो ग्रसिग्रसे: ग्रहे: / ग्रसति गृह्णाति वा बुद्ध्यादीनिति ग्रामः / सूचेः स्मक् / सूक्ष्मम् / ह्यादेर्मक् / हिमम् / धूमः / श्याम / युध्मः शरः / इध्मः काष्टम् / जन्म // 30 // भियो वा षुगागमः / भीष्मः / भीमः / युजिरुजितिजां षष्ठीवृत्तेः कुत्वं चान्तस्य / युग्मम् / रुग्मम् / तिग्मं तीक्ष्णम् / अधगृघृणाम् / अधमः / ग्रीष्मः धर्म, इत्यादि मगन्तम् / किदयस्तनेः / तनयः / हो दु किदागमश्च हृदयम् / आय्यः स्पृहे: / स्पृहयाय्यः / ते अपरतोऽपीत्युक्तेः, श्रवाय्यः, इत्यादि / मदेः स्यः / मत्स्यः / भुजिरुजेरिष्यः कित् / भुजिष्यं [भोग्यम् / ] रुजिष्यं दीप्तम् / वृऋभ्यामेण्याण्यनौ / वरेण्यः श्रेष्ठः / अरण्यं वनम् / पुणे: क्यः / पुण्यम् / अन्यान्तं हिरण्यादि निपात्यते / हो हिरण्यम् // 31 //