________________ चतुर्थोऽध्यायः प्रथमः पादः 285 पताका / ] शीङः / श्यामाकः / खजाकः / मनाकः / तडाकः / पडे: पिन्निपातनात् // [17 / / ] ___ अलीषः कीकन् / अलीकं ललाटम् / इषीका तुलाश्रयः / मृदेः कुश्चागमः / मृद्वीका दाक्षाः / ऋहीका निपात्यते / तत्कणौ तिन्तिडकिङ्कणौ च स्तः / तिन्तिडिका / [किङ्किणिका] घण्टिका / जचरौ जर्जरचञ्चरौ स्तः / जर्जरीकः / [चञ्चरीकः / ] एवं वाल्मीकादि / कादेवुन् / करकः / सरकः / नरकः / इत्यादि / मण्डिशलेणूकः / मण्डूकः / शालूकम् उत्पलम् // 18 / / .. णूकान्तोलूकादिनिपातनम् / अर्तेः [? वले:] उलूकः / भल्लूको हिंस्रः / जलूका [जलौका] इत्यादि / शमः खः शङ्खः / मुहे: ख रूचान्तः / मूर्खः / शिखा निपातनम् / पतेरङ्गः / पतङ्गः / मुदे गाङि / मुद्गः / गृ / गमेर्गः / गर्गः / शृअञ्जिभृआदि गान्तम् / [शृङ्गः / अङ्गः / भृङ्गः / ] जनेर्घः / जङ्घा / कचेः च्छः / कच्छ: पार्श्वः / शकादेरटन् / शकटम् / अवटः / कुलटा इत्यादि // 19 // कृतकृपः कीटः / कृत्रोरिर् / किरीटः / तिरीटं वेष्टनम् / कृपीटम् / एवं जनेर्जटा / लुटेर्लोष्ठः / धातोस्तु ठः / वडे: वण्ठ इत्यादि / कमेरठश्च / कमठः / कण्ठः / वृकृभ्यामण्ड: / वरण्ड: मुखरोगः / करण्ड: / ऊोर्ड: / ऊर्णा / अमन्तादेर्ड: / चम् / चण्ड: दुर्जनः / अण्डः / दण्डः / रण्डा / षण्डम् / मण्डम् / ञमन्तात् सिद्धे कुणाद्यनरेनिपातनार्थम् / कुण्डम् / मुण्डम् / गुण्डम् इत्यादि / विशेझच् / झोऽन्तः / जरन्तः महिषः / वेशन्तः वल्लभः / शकेरुन्तः / शकुन्तः [पक्षिः] / शमेढः / शण्ढः // 20 // झट् नन्दादेः / टिच्चर्थः / नन्दन्ती सुखी / जीवन्ती ओषधी / रोहन्तो वृक्षः / साधन्तो भिक्षुः / भासन्तः सूर्यः / भवन्तः कालः / णान्तौ गण्डयन्तः मण्डयन्तश्च / ओदन्तः / हेमन्तः / वसन्तः / वहन्तो रथः / जयन्तस्तरुविशेषः / अद्भ्योऽत् / अप्सु तुम् / श्यादेरिनः / श्येतः, हरितश्च वर्णांशः / रोहितो मत्स्यभेदः / लत्वेन, लोहितो रक्तः / अतो भृञादेः / भरतः / दर्शतः सोमः / यजतः वह्निः, इत्यादि / रञ्जिपृषेः कतः / रजतं रौप्यम् / पृषतो मृगः // तन्-[॥२१॥] ग्रादेः / गतः / वातः / मर्तः लोकः / लोतः / पोतः बालः / अन्तः / हस्तः / एतो वर्णः / तान्तनिपातनम् / अञ्चेः [अक्तम् / ] घृतम् / द्यूतम् / सितम् / ततेः तातः / सुरमेः / सूरतं मुखसंवासः / फले: पलितम् / जनेर्जतः, इत्यादि / शमादेरथः / [शमथः] समाधिः / वञ्चथः कोकिलः / शयथः / आवसथः, इत्यादि // 22 // वृञ्जभ्यामूथः / वरूथः बलसम्पातः / जरूथ: अग्रमांसम् / कुषादेः थः / कोष्ठम् / गाथा / उषः ओष्ठः / रमादेः क्थः / रथः / काष्ठम् / पीथमम्भः / तीर्थम् / कुष्ठम् / तुत्थं वह्निः / उक्थं साम / सिक्थं विष्ठा / ऋक्थं द्रव्यम् / जान्तस्तथादि निपात्यते / समिण् / समिथः अग्निः, इत्याद्यन्येऽपि / अवभृथं यज्ञावसानम् // 23 / / ___ उन्देर्यु न्लोपश्च / ओदनः / वीपतिभ्यां तनः / वेतनं भृतिः / पत्तनम् / कम्शपेर्दः / * कन्दः / झलो जश् / शब्दः / दान्तं वृन्दादि निपात्यते / वृञ् वृन्दम् / आपेः [अब्दः / ] कमेः [? कौतेः] कुन्दः / श्यायतेः श्यादः सुवर्णम् / मदेर्मनेर्वा / मन्द इत्यादि / हजादेरिनः / हरिणः