________________ 284 पञ्चग्रन्थी व्याकरणम् घसाद्यत्यन्तेभ्यः इण् / घासिरग्निः / राशिः / आजिः / जनिर्माता / पाणिः / आतिः गमनम् / अश्रि आदेः सख्यन्ता निपात्यन्ते / आङ् श्रियः / अश्रिः / वियः वि: पक्षी / स एव ने! च / नीतिः / प्र हृञ् / प्रहिः / कृञ् / कारि: शिल्पम् / भ्रम् भूमिर्वायुः / सपूर्वस्य ख्यातेः . सखिः, इत्यादि / सृण्यन्ताः / अगि अति च्यः अथिन् उरि इथि स्युः / सारथिः / अङ्गरिः / लत्वेन अङ्गलिः / अतिथिः / सञ् असेः थिक् / सक्थि / अस्थि / नीदले मिः / नेमिः शकटम् / दल्मि वस्त्रम् / कुषि असेः / कित्सिः / कुक्षि / अक्षि / अर्तेरन्ति च / अरतिः हस्ती // [11 // ] रश्मिः / ऊर्मिः / भूमिः / इति म्यन्ताः निपात्यन्ते / रशेः शत्वम् / अर्तेः ऊत्वम् / शद्लुरात्यां त्रि / शत्रिः कुञ्जरः / रात्रिः / भूसूअदिः क्रिन् / भूरिः / [सूरिः / अद्रिः / ] कण्मृङ: इचिः / कणीचिः लता / मरीचिर्मयूखः / अञ्जिशकेरलिच्छन्तिचौ क्रमेण / अञ्जलिः / शकुन्तिः पक्षी / अन्तिर्भुवः / भवन्ति कालः / धामादेरनिः / [धमनि:] गलशिरा / अशनिः / वर्तनिः तर्वाद्रव्यम् / धरणिः / तरणिः / सरणिः पन्था / ग्रहणिः पङ्क्तिस्थानम् / अवनिः / अरणिः समुद्रः / क्षिपणिः आयुधम् / अनदेङ् / अगेनिः श्यादेश्च / अग्निः // [12 // ] . श्रेणिः / वह्निः / श्रोणिः / योनिः / शकुनिर्निपात्यते / वियो णिः / वेणिः / ण्यन्तो घृण्यादिनिपात्यते / [घृणिः / पाष्णिः / चूर्णिः / सृणिः / विनतः छव्यादेनिपात्यते / छदेः छवि: त्वक् / दिवे: दीदिविः स्वर्गः / दीविश्च श्वापदम् / एवं कृवि, आदि // 13 // वद्रश्च विन् / वविः शकटम् / दविः तर्दूः / पातेर्डतिः पतिः पाता / दृब्बसेः क्तिन् / दृतिः चर्ममयी / बस्तिः मूत्राशयः / वहादेरतिः वहति!ः / वसतिग्रामसंनिवेशः / अमति कालः / गम्लराभ्यां डोडै स्तः / गौ / रै / असुबन्तौ / ग्लौनुदेः डौं / ग्लौश्चन्द्रः / नौः / तन्द्रादि ई / / तन्द्री मूर्छा / अवीः / तरीः अग्निः [? प्लवः] स्तरी: मर्मः [? धूमः] / एवं ययीरित्यादि / [ययीः] अश्वः / [पपी:] रविः / अश्वकमलार्थाः / लक्षेर्मुट् च // 14 // कादेः कः / [काकः / ] पाक: बालः / कर्कः वर्णविशेषः / दाको यज्ञः / धाक ओदनः / शल्कः मुद्गः / राका पौर्णमासी / अर्कः रविः / मर्कः वायुः / एकः / भेकः / कान्तं यूकादि निपात्यते / अर्तेः [? ओषतेः] उल्का / सूकम् उत्पलम् / मुष्कः वृषणः / वल्कः त्वक् / इष्टित्याद्यन्येऽपि || [15 / / ] धातोः प्कुः / क्षिणः क्षिपकः / योद्धा लिखकः / लघेर्लङ्घकः मालाकारः / धमः सौत्रः / धमकः धर्मकरः / इत्यादि / हाक् जहश्च जहकः / लावकः / कृषेरच् अर् चाचः स्यात् / कर्षक: / कार्षको वा कुटुम्बी / वृश्चिमूषेः किकन् / वृश्चिकः / मूषिकः / एवम् आपणिको वणिक् / आपतिकः कालः // [16 / / ] ईद्यः स्यमः / स्यमेर्य इच्च / सीमिको वृक्षः / भीशीभ्यामानकः / भयानकः / शयानक: अजगरः / कृदादेः तिक् च / इति कित् तिक: स्यात् / कृत्तिका / भित्तिका कृड्यः / लतः सौत्रः / लत्तिका गोधा / शिघेणिक् / नञ् / शिघेर्णिकः स्यात् / नशादेशश्च / नासिका / शिघिनश्चोण इति वा पावः नाशस्तावः / इषेः क्तकन् / इष्टका / बलशलिपतेराकः / बलाका / [शलाका /