________________ चतुर्थोऽध्यायः प्रथमः पादः / 293 संज्ञाभावे पर्यायार्हणोत्पत्तौ स्यात्, न क्त्यादि / रोगाख्यायाम् / विचर्चिका / प्रवाहिका / प्रच्छर्दिका / विशूचिका / आख्यात् तदन्तेन रोगसंज्ञा चेत् / न च / शिरोतिः / संज्ञायाम् / उद्दाल[क]पुष्पभञ्जिका / भावे / शायिका, आशिका वर्तते / पर्याये / तव शायिका, ममाशिका, तस्याग्रग्रासिका / अर्हे / सोऽर्हतीक्षुभक्षिकाम् / ओदनभोजिकाम् / ऋणे / पयः पायिकां मे धारयसि / इक्षुभक्षिकाम् [मे धारयसि / ] उत्पत्तौ / इक्षुभक्षिका मे उदपादि / न च / चिकीर्षोत्पद्यते // (46) क्रियेच्छे / [ 4 / 1 / 4 / 5 / ] कृत्रि शेः षः / क्रिया / इच्छा / बहुलम् / कृतिः / कृत्या / इष्टिः / (47) ग्लाहाज्य आकोशनोऽनिः / [4 / 1 / 4 / 6 / ] अतः परोऽनिस्तथा / ग्लानिः / आक्रोशार्थनञः पराद्धातोरनिः स्यात् / अकरणिः, अजननिः, अपठनिः ते वृषल भूयात् / आक्रोशे किम् ? अकृतिस्तस्य कटस्य / तत्र किम् ? मृतिस्ते वृषल भूयात् // (48) अङ्क्यभिच्छ्यादितः / [4 / 1 / 4 / 7 / ] स्त्रियां भिद्यादेरङ् शीङादेः क्यप् स्यात् / [अत्र] सप्तपाद्दोधकमेलयोस्तु भिच्छित् स्वार्थे धारा पाते आरा शस्त्र्यां षिद्भ्यश्चिन्तेः / पूजेः कुम्बेः चर्चेः कथ्यन्थः का गोधा मेधा श्रद्धा / हारा कारा तारा रेखा लेखा चूडा पीडा वस्वप् / क्षप् गुवित्सृज्क्रप् च कृप् स्यात् // 1 // क्तेट् गुरुहल्यरडित्वषजागुः शीभृक्रिणौ समज्या मनवित्सोः / कृव्रजनेषदिपत्यजटाद्या जागृपरेः सृचरो मृगया रेड् // 2 // भिदा छिदा स्वार्थे विदारणे द्वैधीकरणे / [तत्र] किम् ? भित्तिः / [छित्तिः / ] धारा आरा प्रपाते शस्त्र्यां च / [अन्यत्र] धृतिः / अतिः / षिद्भ्यः / जृष् जरा / [क्षमुष्] क्षमा / [त्रपुष् त्र-]पा च / घटादि षित् / घटा / चिन्तादेः ण्यन्तान युः / चिन्ता / [पूजा / कुम्बा / चर्चा / ] कथा / अन्थः का / अन्तः प्रादेरातः / अन्तर्धा / अन्तद्धिः / अन्तर्धानं च / प्रधा / उपधा / संस्था / व्यवस्था / अन्तः प्रादेः किम् ? स्थितिः / गोधादि / एवं वसा, वपा, क्षिपा, गुहा, . विदा, सृजा / क्रप् कृप् च / कृपा // 1 // तस्येट यतो गुरोर्हलन्तात् / यर् यकादिप्रत्याहारात् / जागर्तेश्च / अदिद् अर्थाद् अ: स्यात् / कुण्डा / हुण्डा / ईहा / ऊहा / उक्षा / काङ्क्षा / क्तेट् किम् ? आप्तिः / राद्धिः / दीप्तिः / ध्वस्तिः / स्रस्तिः / यर् / कण्डूया / पटपटाया / गल्भा / पुत्रीया / पुत्रकाम्या / चिकीर्षा / लोलूया / ऋतीया / गोपाया / तथा, जागरा / संस्थितिः / कण्डूतिः / नाड् पूतादिपाठात् / स्त्रियां किम् ? भेदनम् / भवे किम् ? भेत्री / भिदाद्याकृतिगणः / शीङादेर्भावे नाम्नीष्यते / शयनं 'शय्या / भृत्या / समज्या / मन्या / विद्या / सुत्या / कृत्या / व्रज्या / नेः / निषद्या / निपत्या / यजः / इज्या / अटाद्याः / यङो लुग् निपात्यते / जाग्रादेरारड् / जागर्या / परिसर्या / परिचर्या /