________________ चतुर्थोऽध्यायः प्रथमः पादः 277 हात् किम् ? हात्वा / जहित्वा / इटि लोपः // (21) अब्दा दत् / [4 / 1 / 2 / 6 / ] अपिद् दारूपः किति दत् स्यात् / अपित्यधार्थम् / अवदातम्, अवदत्तं, मुखम् // (22) तः प्राद्यभ्यश्च / [4 / 1 / 27 / ] अब्दात् तः स्याददित् प्राद्यणन्ताः परः प्रादीग्दीर्घश्च हि / प्रत्तम् / प्रवत्तम् / नीत्तः / सूत्तम् / प्राद्यण किम् ? दधि दत्तम् / निदत्तावदत्ते विदत्तप्रदत्ते सुदत्तानुदत्तो प्रभृत्यादि कर्म-। ण्यथो पूर्वयोगादथ प्रादिवृत्त्या परेषामिवात्रापि सूत्रं विनिष्टम् // 1 // ____ (23) क्तौ ह्रादात् / [4 / 1 / 2 / 8 / ] ह्लाद आ आम् स्यात् अक्तिचि क्तौ / प्रह्लत्तिः / क्लिति / प्रह्लावि / (24) ते / [4 / 1 / 2 / 9 / ] क्तक्तवतोश्चाधिकारश्चातः / प्रह्लत्तः // (25) स्फायः स्फी / [ 4 / 1 / 2 / 10 / ] तथा / स्फीतः / [स्फीतवान् / ] क्ते किम् ? स्फातिः // (26) प्रस्त्यास्ती / [4 / 1 / 2 / 11 / ] क्ते / प्रस्तीतः / प्रि सति किम् ? संस्त्यानः // (27) प्राद् मो वा / [4 / 1 / 2 / 12 / ] प्रात् परा स्त्यः तौ मो वा स्तः / प्रस्तीमः / [प्रस्तीमवान् / प्रस्तीतः / प्रस्तीतवान् / ] प्रात् किम् ? प्रसंस्तीतः / [प्रसंस्तीतवान् // ] .. (28) शुष्पचक्षः को वो मः / [4 / 1 / 2 / 13 / ] एभ्यः तयोः कः वः मः स्यात् / शुष्कः / [शुष्कवान् / ] पक्वः / [पक्ववान् / ] क्षामः / [क्षामवान् / ] सादेरसन् वा कुत्वम् / / (29.) पीत्प्याय् / [4 / 1 / 2 / 14 / ] तिदप्रादि प्याये पी स्यात् / पीनो बाहुः / तित् किम् ? प्रप्यानः // (30) अन्धूधस्याङः / [ 4 / 1 / 2 / 15 / ] तथा / आपीनोऽन्धुः / आपीनमूधः / अन्धूधसि किम् ? आप्यानश्चन्द्रमाः // (31) क्षीबाद्याः / [4 / 1 / 2 / 16 / ] क्तक्तवन्तृता निपात्यते / वृत्तमिह ट्क्षीबः कृशोल्लाघश्रुतं हविः पयो भित्तं दले ज्ञातधने तु वित्ततो ख्यामूछिपध्योऽपि मदेरमारुते निर्वाणफुल्लः समुदस्तथा गणः // 1 // क्षीब कृश उत्पूर्वलायुक्तान्तास्तलोपेऽऽभावा निपात्यन्ते / टित् किम् ? प्रक्षीबितः / परिक्षीबः / [प्रकृशितः / परिकृशः / प्रोल्लाघितः / प्रादिसमासादित्येके / असुबन्ताः छन्दोर्थम् / स्वार्थे श्रातेः श्रपयति वा / शृतं हविः, क्षीरं वा / स्वयंद्रावा हेतुः / णे श्रपितं तेन क्षीरं हविः / पयः किम् ? श्राणा यवागूः / भित्तं दले किम् ? भिन्नं सर्वम् / वित्तः ज्ञातधने / वित्तः प्रतीतः / वित्तं धनम् / विन्नमन्यत् / ख्यादेः तौतः स्तो न तु नः / ख्यातः / [ख्यातवान् / ] मूर्तः / [मूर्तवान् / ] .पूर्तः / [पूर्तवान् / ] ध्यातः / [ध्यातवान् / ] मत्तः / [मत्तवान् / ] क्तो नः / निर्वातं वातेन /