________________ 276 पञ्चग्रन्थी व्याकरणम् (9) गमात् क्वौ / [ 4 / 1 / 1 / 9 / ] लुगन्तः स्यात् / अत्र दिगम् गंयंतमंऊंचेत्यादेः // 1 // कलिङ्गगत् / संयत् / एवं [परीतत् / सुमत् / अग्रेगूः // ] (10) वल्बौ व्यः / [4 / 1 / 1 / 10 / ] वलि क्विबादौ च व्य वयौ लुक् स्तः / दिदिवान् / दिदिवांसौ / कण्डू: / लोलूः / ऊयी / क्नूयी / ऊतम् / क्नूतम् / क्नोपयति / वल्बौ किम् ? क्नूयिता // (11) वेः / [4 / 1 / 1 / 11 / ] उत्सृष्टानुबन्धो लुक् स्यात् / पटीकरोति / अश्वति / घृतस्पृक् / अर्धभाक् / अग्निचित् / लुक् // (12) पित्यशले लघोस्तुक् / [4 / 1 / 1 / 12 / ] अशिल्लादेशे पिति लघोः तुगागमः स्यात् / उपचित्य / प्रकृत्य / अग्निचित् / प्रातरित्वा / अशले किम् ? पिपक्षति / बिभति // (13) क्त्वा प्योऽनञि / [4 / 1 / 1 / 13 / ] क्त्वा प्यः स्याद् अनजि अनसमासे / प्रस्थाय / विलाय / अनसमासे किम् ? अकृत्वा / अहृत्वा / नञ्वत्प्रादिः किम् ? परमकृत्वा // (14) इद्वाऽञ तु मे / [4 / 1 / 1 / 14 / ] मेडोऽन्त इद् वा स्यादत्र प्ये / अपमित्य / अपमाय याचते / (15) अदजग्धः / [4 / 1 / 1 / 15 / ] प्ये स्यात् / प्रजग्ध्य / अन्तरङ्गविधीन् बाधते / अवाय, प्रदाय, प्रशम्य, प्रपाय, प्रक्राम्य, प्रच्छाय, प्रदीव्य, प्रयाय्य गतः / हित्वदत्वत्वै त्वदीर्घत्वे त्वोत्वादीन् // 1 // कित्तिद्दोसोमास्थां शाच्छो वा हि धाञ् हात् क्त्व्यब्दा दत्तः प्राद्यभ्यश्च क्तौ लादात् क्ते / स्फायः स्फी प्रस्त्यास्ती प्राद् मो वा शुब्यक्षः को वो मः पीत्प्यायन्धूधस्याङः क्षीबाद्याः // 4 / 1 / 2 // षोडशगम् // . (16) कित्ति / [4 / 1 / 2 / 1 / ] किति तदावदः / जग्धः / जग्धिः / जग्ध्वा / कित् किम् ? अत्तव्यम् / तित् किम् ? अद्यते // (17) इद्दोसोमास्थाम् / [4 / 1 / 2 / 2 / ] तथैषामिदन्तः स्यात् / निर्दितः / [सितः / मितः / स्थितः / ] माङ् किम् ? मातः प्रस्थः स्थाल्याम् / दोसोनिर्देशाद् यङ्लुकि न / दादिः / [सासीतः / ] कित्ति किम् ? अवदात / प्रदाय // (18) शाच्छो वा / [4 / 1 / 2 / 3 / ] तथा / निशातः / [अपच्छातः / ] निशितः / [अपच्छितः // ] (19) हि धाञ् / [4 / 1 / 2 / 4 / ] धाञ् किति हि स्यात् / हितः / [हितवान् / हित्वा / हितिः] / जित् किम् ? दाधितः // (20) हात् क्त्वि / [4 / 1 / 25 / ] हि स्यात् / हित्वा तां गतः / क्त्वि किम् ? प्रहाय /