________________ तृतीयोऽध्यायः चतुर्थः पादः 271 व्रश्चभ्रस्जोऽलिडयङि वशोऽश्विस्यमोर्लेऽपि वादेस्तेषां वेर्वाऽपिति न यिकि वाच्यः परे प्ये तयोर्व्यः / दीर्घो वोऽच्च्वौ य्यगपशि तृरी शे रियक्कयाशि हलोर् यङस्कृच्छां च लिटि निवृहेर्नित्वनर्चाञ्चितो हल् // 3 / 4 / 19 / ] मन्दाक्रान्ता // (217 ) व्रश्चभ्रस्जोऽलिडयङि वशः / [ 3 / 4 / 19 / 1 / ] क्रमेण प्रच्छादेरलिटि कापशित्तिङि साच्यणिक् स्यात् / पृच्छयते / परीपृच्छ्यते / पृच्छति / पृष्टः / वृश्च्यते / [वरीवृश्च्यते / वृश्चति / ] वृक्णः / ऊ: क्विप् वेञ् निपात्येते / ऊः उवौ / भृज्यते / [बरीभृज्यते / भृज्जति / भृष्टः / ] अलिटि किम् ? पप्रच्छुः / [वव्रश्चः / बभ्रज्जुः / ] तथा वशेः / उश्यते / उशितम् / उष्टः / उशन्ति / ऊशुः / अयङि किम् ? वावश्यते // .. ___ (218) अश्विस्यमोर्लोऽपि वादेः / [3 / 4 / 19 / 2 / ] उक्तेकाम् अश्विस्यमीनां लाविति लिटि पिति द्वित्वे कृते, आदेः पूर्वस्य साच्यणिक् स्यात् / सुष्वाप / सुष्वपिथ / जग्राह / [जग्रहिथ / ] विव्याय / [विव्ययिथ / ] विव्याच / [विव्यचिथ / ] उवाच / [उवचिथ / ] इयाय / [इययिथ / ] उवाय / [उवयिथ / ] प्रच्छादेः / पप्रच्छ / [पप्रच्छिथ / ] अनादिहलो लोपं बाधते / उवास / अश्विस्यमोः किम् ? शिश्वाय / [शिश्वयिथ / ] सस्याम / [सस्यमिथ // ] (219) तेषां वेर्वाऽपिति / [ 3 / 4 / 19 / 3 / ] अपिति लिटि तेषां प्रकृतेनित्यं वेो वा साच्यणिक् / विविचुः / ऊचुः / ईजुः / इत्यादि / विविधुः / जिज्युः / जगृहुः / वच्छवश्चभ्रस्जोऽलिट्यप्युक्तम् / जसुः / अस्य म एव / सस्यमुः / वेर्वा / ऊवुः / ववुः / वे: किम् ? नित्यं ऊयुः / अपि किम् ? ववौ / वविथ / !ऽपि चादेः / कृते अकृतेः पित्यादेरेवेति नियमात् / तेषां नित्यं वेर्वा प्रकृतेरादपि / तथाऽन्यथापि चादेर्व्यर्थः स्यात् / तथा च अपिग्रहणात् वेङ: पिचादेरिति न स्यात् // ... (220) न य / [3 / 4 / 19 / 4 / ] वेर्वयि सति य इग् न स्यात् / उवाय / ऊयुः / सात् किमित्येव सिद्धं चेत् / उ इकीति पाठः // (221) इकि / [3 / 4 / 19 / 5 / ] यण इकि सति पुनर्नेक् / वीतः / विध्यति / वृश्चति / (222) वाच्यः परे: प्ये / [3 / 4 / 19 / 6 / ] परिप्येञ् / नेश्वाक्त्वादेशे प्ये / परिवीय / परिव्याय // (223) तयोर्व्यः / [3 / 4 / 197] तयोर्ये त्रेत्वकोय॑श्च प्ये नित्यं नेक् / उपव्याय / प्रव्याय / प्रज्याय // (224) दीर्घोऽवः / [3 / 4 / 19 / 8 / ] क्ङापसिचिङि इत इग्दीर्घः स्याद् अवेञः / वीतः / हृतवान् / जीनः / जीत्वा / अवः किम् ? उमतः / वेरवत् किम् ? चितम् / स्तुतम् / विचति इत्यादौ न, व्यवधानात् / अष्ठिमारौ / मघसत् / अषत्वे षत्वे सिद्धम् / म वातो मृज्यं षत्वं स्तोरित्युक्तं नत्वसिद्धौ न स्यात् / अतः स्कादीत् स्तौ चोक्तत्वे कर्तव्ये नत्वमसेच्च क्रयि कुत्वम् //