________________ 270 पञ्चग्रन्थी व्याकरणम् शिश्वाययिषति / अशूशवत् / अशिश्वयत् // ( 208) वेड् / [3 / 4 / 18 / 3 / ] तथेड् वा स्यात् / अधिजिगापयिषति / अध्यापिपयिषति / अध्यजीगपत् / अध्यापिपत् // (209) ह्वः / [3 / 4 / 18 / 4 / ] साच्यणिञ नित्यं तथा / जुहावयिषति / अजूहवत् / जिह्वाययिषति न, व्यवधानात् // (210) चङि / [3 / 4 / 18 / 5 / ] प्रत्याहारात् चङ् लिट् सन् यङि हित्वहेतौ ह्रः साच्यणिक् स्यात् / जुहाव / जुहुवतुः / जुहूवति / जोहूयते / जोहवीति // (211) अपि स्वप् कि / [3 / 4 / 18 / 6 / ] अपः साच्यणिक् चप्छपि वि किति च / असूपुपत् / वचनाद् व्यवधानेऽपि / सुषुपतुः / सुषुप्सति / सोषुप्यते / सोषुपीति / अपि किम् ? सुष्वाप / कितः / सुप्तः / सुप्त्वा // (212) सङोग्रहिप्रच्छस्यम्व्योः [ // 3 / 4 / 18 / 7 / ] ओस्तिनिर्देशाद् ग्रहिप्रच्छि इत्येक पदम् / स्यम्व्येङिति द्वितीयम् / अनयोः साच्यणिक् स्यात्, सङोः सनि. यङि / जिघृक्षति / विपृच्छिषति / तथा, सेसिम्यते / सेसिमीति / वेवीयते / वेवयीति // (213) व्यचः / [3 / 4 / 18 / 8 / ] व्यचेरसुस् निपात्यते यणिग् न / उरुव्यचाः / शिरोव्याच्यः // (214) सोऽणिति पुण्व्यचां यिक् / [3 / 4 / 18 / 9 / ] पुणादीनां व्यचश्च य इक् सो यिक् स्याद् अणिति प्रत्यये परतः / स इति इक् / इगेव स्यात् / पुणावेदोऽरेङ् / पुपुणिषति / पुणितुम् / विचिता / वेविच्यते / अणिति किम् ? पाणयति / पुपोण कीटकः / व्याचयति / स किम् ? न्यनुवीत् / न्यनुवीत / इ यु वादेशे स इगस्ति, न बाध्यते / / (215) किं वच्यजादेः / [3 / 4 / 18 / 10 / ] साच्यणिक् / उच्यते / ऊचुः / यजोवहोऽ!द्धरणे डुवप् ढङ् वेञ् स्पर्धतन्तौ तु विभाषिताः स्युः / वसो निवासे वद व्यक्तवाचि ट्ओश्विगत्यामतानिनो वत् // 1 // इज्यते / इष्टः / उह्यते / ऊढम् / संवीयते / [संवीतः / ] उवप्यते / उप्तः / हूयते / [हूतः / ] उयते / उतम् / उष्यते / उषितम् / उद्यते / [उदितम् / ] स्तूयते / स्तुतम् / किति किवचनम् // (216) व्यधिज्याग्रहाम् / [3 / 4 / 18 / 11 / ] साच्यणिक् स्यात् / कापशित्तियुपूर्वोक्तेषु / विद्धम् / विध्यते / वेविध्यते / विध्यति / जीनम् / [जिनाति / जेजीयते / जीनवान् / ] गृहीतम् / [गृह्णाति / जरीगृह्यते / गृहीतवान् / ] गृह्णाति / एषु किम् ? व्यद्धा / जाता // (217) प्रच्छ् / [3 / 4 / 18 / 11 / ] उत्तरार्थम् // 18 //