________________ तृतीयोऽध्यायः चतुर्थः पादः 269 लिलिखिषति / . दिद्योतिषते / [दिद्युतिषते / ] लिखित्वा / [लेखित्वा / विलिख्य / विलेख्य / ] हलादेः किम् ? एषिषिषति / एषित्वा / त्यु किम् / विवर्तिषते / तित् यु किम् ? दिदीयिषते / अच्यः किम् ? दिदेविषति / [दुधूषति / ] इटि किम् ? बुभुक्षते / भुक्त्वा // (197) रुविन्मुषः / [3 / 4 / 17 / 2 / ] तथा नित्यम् / रुरुदिषति / रुदित्वा / एवं, [विविदिषति / विदित्वा / मुमुषिषति / मुषित्वा // ] (198) सि / [3 / 4 / 17 / 3 / ] सादौ सनि अवर्ण अरेङ् स्यात् / सिसृक्षति / [सिसृप्सति / ] तितृप्सति / चिकीर्षति / चिकृप्सति / चिचीषति / बुभुत्सति // (199) इग्नितस्त्वि / [ 3 / 4 / 17 / 4 / ] इक्कृतयणिकः न्लुकश्च क्त्वीटि नारेङ् / वद्उदित्वा / वस्-उषित्वा / गृहीत्वा / नित् / लुचित्वा / गुफित्वा // (200) क्लिशो मृण्मृदो गुत्कुषः / [3 / 4 / 17 / 5 / ] तथा / क्लिशित्वा / [मृडित्वा / मृदित्वा / गुधित्वा / कुषित्वा / ] एषां किम् ? देवित्वा // (201) वर्तृषो मृष्कृशश्च / [3 / 4 / 17 / 6 / ] तथा वा ऋदादेः / ऋत् सौत्रः / ऋतित्वा / अतित्वा / एवं [तृषित्वा / तर्षित्वा मृषित्वा / मर्षित्वा / कृशित्वा / कर्शित्वा / ] चकारात् कुधित्वा, नित्यं व्यवस्थितत्वात् // (202) इटि वोर्णोः / [3 / 4 / 17 / 7 / ] प्रोणुविता / प्रोर्णविता / प्रोणुनविषति / [प्रोणुनविषति / ] इटि किम् ? प्रोर्णवनम् // (203) विजः / [3 / 4 / 17 / 8 / ] नारेङ् नित्यमिटिं / उद्विविजिषति / उद्विजिता / इटि किम् ? उद्वेजनम् // (204) कापशिन्तिक्षु / [3 / 4 / 17 / 9 / ] किति शिति ङि ति तिङि चापिति धातोनरिङ् / कृतम् / चितम् / स्तुतम् / ङिति / अशिश्रियत् / अदुद्रुवत् / शिति / चिनोति / चिन्वन् / चिनुयात् / तिङि / कुरुतः / कुर्वन्ति / अतिति किम् ? हरति / नयति / करोति / अपिशित्तिक्षु अधिकारो जगन्हनिति यावत् // (205) पी लिट्यङो प्याय् / [3 / 4 / 17 / 10 / ] प्याय् पी स्यात्, लिटि यङि च / [पीनं मुखम् / पीनौ बाहू / ] आपिप्ये / आपिप्यिरे / आपेपीयते / आपेपीतः // 17 // श्वेः श्याच्यणिक् संश्चङि णौ च वा वेड् हश्चयपि स्वप्कि सडोग्रहिप्रच्छ-। स्यम्व्योर्वचः सोऽणिति पुण्व्यचां यि किं वच्यजादेयंधिज्याग्रहां प्रच्छ् // 3 / 4 / 18 // वृत्तम् // (206) श्वेः श्याच्यणिक् / [3 / 4 / 18 / 1 / ] परो वात्र श्वर्यण् सह वा इक् स्याद् वा लिट्यङो // शुशाव / शुशुवतुः / शिश्वाय / [शिश्वियतुः / ] शोशूयते / शोशवीति / शेश्वीयते / साजप्रकृत्यर्थम् / अव्ययत्यर्थम् // (207) संश्चङिणौ च वा / [3 / 4 / 18 / 2 / ] संश्चङ्परे णौ तथा / शुशावयिषति /