________________ 268 पञ्चग्रन्थी व्याकरणम् हलादेस्त्यु वाव्यश्च सन्वीटि रुद्विन्मुषः सीग्नितस्त्वि क्लिशो मृण्मदो गुत्कुषो वर्तृषो मृष्कुशश्चेटि वार्णोविजः कापशित्तिक्षु पीलिट्यङोः प्याय् // 3 / 4 / 17 // ) अष्ट्यं भुजङ्गद्वयं वा // (186) क्यचीदः / [ 3 / 4 / 16 / 1 / ] अ ईत् स्यात् क्यचि परे / पुत्रीयति / मालीयति // (187) अशनात्तुम् / [3 / 4 / 16 / 2 / ] अशना क्यच्याकारान्तः स्यात् तदत्तुम् / बुभुक्षितो भोक्तुमिच्छतीत्यर्थः / अशनायति / अशनाय अत्तुं किम् ? अशनीयति दानाय / (188) धना तृषि / [3 / 4 / 16 / 3 / ] तथा धनायति / तत् तृषायां किम् ? धनीयति दानाय // (189) उदन्यः / [3 / 4 / 16 / 4 / ] निपात्यते / तत् तृषि किम् ? उदकीयति // (190) वृषाश्वस्य सुग्मैथुने / [3 / 4 / 16 / 5 / ] तत् तृषि / वृषमश्वं चेच्छति मैथुनाय' / वृषस्या गौः / अश्वस्यति वडवा / मैथुनेऽर्थे किम् ? वृषीयति // (191) अत्तुं त्वसुक् / [3 / 4 / 16 / 6 / ] क्यचि असुक् तथा सुक् स्यात् तृषि, अत्तुमिच्छतीत्यर्थे / दध्यस्यति / मध्वस्यति / दधिस्यति / [मधुस्यति / ] लवणस्यति / अत्स इत्यषत्वम् / अत्तुं किम् ? दधीयति / [मधूयति / ] क्षीरीयति / [लवणीयति] || .. (192) च्वौ / [3 / 4 / 167 / ] अ ईत् स्यात् / घटीकरोति / एवं [घटी-] भवति / [घटी-] स्यात् / मालीकरोति / [मालीभवति / मालीस्यात् // ] (193) मनोरूरहश्चक्षुचेतोरजस्सिच् च / [3 / 4 / 16 / 8 / ] एषामसुग् इल्लुक् च / कृतसिच् चक्षुच्छन्दोर्थम् / उन्मनीकरोति / [उन्मनीभवति / उन्मनीस्यात् / ] अरूकरोति / [अरूभवति / अरूस्यात् / ] रहीकरोति / [रहीभवति / रहीस्यात् / ] उच्चक्षूकरोति / [उच्चक्षुभवति / उच्चक्षूस्यात् / ] सचेतीकरोति / [सचेतीभवति / सचेतीस्यात् / ] रजीकरोति / [रजीभवति / रजीस्यात् // ] - (194) दीधीयि [ वेवी] / [3 / 4 / 16 / 9 / ] दीधी अस्य ई लुक् स्याद् इयि इवर्णयकारादौ परे / वेवी तथा आदीधिता / आवेविता / आदीध्यते / [आवेव्यते / ] आदीध्य [गतः / आवेव्य] गतः // (195) अप्यलुक्क्डिच्च नारेङ् / [ 3 / 4 / 16 / 10 / ] अपि अपिति प्रत्यये परेऽस्य लुक् कित् डित् एतदन्तानां दीधीवेव्योश्च अवर्ण आ आर् एङ् न स्यात् / आदीध्यनम् / आवेव्यकः / अलुक् / गणयति / कित् / मगध्यति / मगधकः / कुसुम्भिता / ङित् / सरिसृष्टः / [मरिमृष्टः / ] लोलुवः / मरीमृजः / अपिति किम् ? रोरवीति / 16 / / (196) हलादेस्त्यु वाव्यश्च सन्त्वीटि / [3 / 4 / 17 / 1 / ] हलादेर्धा तो रव्यश्च, अवकारयकारान्तस्य, सनि क्त्वि चेङादौ परे, त्यु ईद् ऊत् अरेङ् वा न स्यात् / लिलेखिषति /