________________ 272 पञ्चग्रन्थी व्याकरणम् (225) अच्च्वौ य्यगपशि / [3 / 4 / 19 / 9 / ] च्वौ यादौ चापिच्छिति क्ङिति दीर्घोऽत् स्यात् / शुचीकरोति / [शुचीभवति / ] पटूकरोति / [पटूभवति / ] भृशायते / सुखायते / वल्गूयते / तोष्टूयते / अपशिति किम् ? प्रकृत्य / चिनुयात् // (226) तृरी / [3 / 4 / 19 / 10 / ] तित् ऋतृ री स्यात् च्वौ ये च क्ङिति / मात्रीभूतः / पितरि साधुः, पित्र्यः / होत्रीयते / ऋत् किम् ? चेकीर्यते / निजेगिल्यते // (227) शे रियक्क्याशि / [3 / 4 / 19 / 11 / ] तृ रि स्याद् एषु / आद्रियते / क्रियते / हियात् // (228) हलो र् / [ 3 / 4 / 19 / 12 / ] हलः ऋसंयोगादेः रुक्रगतावस्य च यञ् वा श्येऽर् स्यात् / स्मर्यते / अर्यते / स्मर्यात् // (229) यङि / [3 / 4 / 19 / 13 / ] तथा / सास्मर्यते / [अरार्यते / सास्वर्यते / दाध्वर्यते / ] एषु किम् ? इय्यात् / नघीयते / हल् वा ते किम् ? संस्क्रियते / संस्कृयात् // (230) ऋस्कृच्छां च लिटि / [ 3 / 4 / 19 / 14 / ] हलश्चार् / विचकरुः / संचस्करुः / आनर्छ / आनछुतुः / सस्वरुः / दध्वरुः / आरतुः / आरुः / अप्राप्ते वचः / संचस्कृवान्, कित्त्वात् // ___ (231) निबृहेन्नित्तु / [3 / 4 / 19 / 15 / ] बृहेर्नु इत्तु न च, लुग्वेत्यर्थः, प्रत्यये परे / निबर्हति / निबर्हकः / निर्वहिता / निबृह्यते / न च / निबृंहति / [निबंहकः / निबंहिता // निबुंह्यते / ] इदित्वादप्राप्ते वा / वृहु अर्थान्तरे // (232) अनर्चाञ्चितो हल् / [3 / 4 / 19 / 16 / ] हलन्ताद्धातोनित् स्यात् / क्ङापशित्तिङि अपूजाञ्च् इदितः / समक्नौ शकुनेः पादौ / उदक्तमुदकं कूपान् / अस्तः / ध्वस्तः / स्रस्यते / [ध्वस्यते / ] सनीस्रत्यते / ग्रन्थाति / मग्नः / हलः किम् ? नीयते / श्रन्थ्यात् / अनर्चाञ्चितः किम् ? अर्चिता गुरवः / अर्चितमिव शिरो वहति / इत् / नन्द्यते / काझ्यते / काङ्क्षादिरित्करणादनेकहलोऽपिल्लुक् लिटीत्वेरेव / दध्वंसे / एषु किम्.? स्रंसिता // 19 // लङ्गिकपेरुपतापविकारे त्वीटि थलुञ्च्वचि फाञजनशो वा-। ऽस्कन्त्स्यदिनस्त्यि हल्यगि शाश्श्येऽद्लौ य्युत्कूहिकि क्यासि हलावेत् // 3 / 4 / 20 // दोधकम् // (233) लङ्गिकपेरुपतापविकारे / [3 / 4 / 20 / 1 / ] उपतापे तद्विकारे च शरीरस्यार्थे नित् / विगलितो, विकपितो ना / तयोः किम् ? विलङ्गितः / [विकम्पितः / ] इतो नुम् // (234) त्वीटि थलुञ्चवचि फाञ्जनशो वा / [3 / 4 / 20 / 2 / ] इडादौ त्वि थान्तलुञ्चिवञ्चिफान्तानां निद् वा, जान्तनशानां चानिटि पार्थक्यात् / श्रन्थित्वा / श्रथित्वा / एवं, गुम्फित्वा / [गुफित्वा / ] इटि किम् ? लुक्त्वा // जनशः / भक्त्वा / रङ्क्त्वा / नंष्ट्वा // ( 235) अस्कन्त्स्यदिनस्त्यि / [3 / 4 / 20 / 3 / ] अस्कन्दिस्यन्देनित् स्यात् त्यि / तयादौ