________________ 266 पञ्चग्रन्थी व्याकरणम् ष्ठीव्यति / अधातोः षो ङ: / षण्डीयति / आदि किम् ? कषति / यो नादिणोपदेशः शादिश्च षोपदेशः, तत् प्रावस्रान्तिनिरासार्थम् / पञ्चपदीह नृनन्दिनक्का नाटिनाधूनर्दीन् मुक्त्वा नृतीनाथू च नादिणादिः / स्तृस्त्यासृपेः सो च्कसृसीक्सृजोऽन्यः दन्त्याचर: स्मिस्विदि च स्वपि स्वद् / स्वञ्जिश्च सादिर्न तु षोपदेशः // 1 // (171) प्रतोऽयो / [3 / 4 / 14 / 8 / ] अय गतौ / एतदन्तस्य प्रादे र् ल् स्यात् / प्लायते / पलायते / प्लत्ययते / प्रतेः प्रयोगं नेच्छन्त्येके / / (172) तृतः / [3 / 4 / 14 / 9 / ] सत्करश्रुतेर्ल श्रुतिः स्यात् / तवल्कारः / कल्पयति / कल्सा / चलीक्लृप्यते / कलीकल्सिः / कृपेर:-कृपाणः / कृपीटकर्पटादेर्व्यवस्थितवायोगात् // (173) वाऽङ्गुरीणाम् / [ 3 / 4 / 14 / 10 / ] अत्र दोधकम् अङ्गुरिपांसुरषूरगरारं रोमचवाररधूपरिकान्तः / रोहिततिर्परिकेलरलीरी अङ्कघयोगपरः परिकर्म // 1 // अङ्गलिः इत्यादि / परिकान्तः / कोरन्तर्मध्ये परि के परि कंत्यर्थः / कपिलिका / [कपिरिका / ] लोहिता / [रोहिता / ] तिर्पिरीका / [तिर्पिलीका / तिल्पिलीका / ] शब्दद्वये यौ लरौ वर्णीतौ ली री क्रमेण स्तो वा / लोहितः / [रोहितः / ] लोहिणी / [रोहिणी / ] णत्वार्थम् / तिर्पिरिकः / [तिर्पिरीकः / ] तिर्पिलीकः / [तिर्पिलिकः / ] दीर्घार्थम् / अङ्कघयोगाः परे यस्य स तत्परः परि / पल्यङ्कः / पलिघः / [परिघः / पलियागः / ] [परियोगः / ] कल्मस्तथा / आकृतिगणः / ग्लहोऽक्षस्य // (174) ड् / [ 3 / 4 / 14 / 11 / ] ल् वा वडभी / वलभी // ( 175 ) अचि ग्रः / [3 / 4 / 14 / 12 / ] तथा / निगिलति / [निगिरति / ] निगलनम् / [निगरणम् / ] निगाल्यते / [निगीर्यते] // ( 176) यङि / [ 3 / 4 / 14 / 13 / ] तथा नित्यम् / निजेगिल्यते // (177) घ्राध्म ईत् / [3 / 4 / 14 / 14 / ] यङचन्तः स्यात् / जघ्रीयते / देध्मीयते / ईत् किम् ? जेघ्रीत || (178) चाय की / [3 / 4 / 14 / 15 / ] यङि स्यात् / चेकीयते / चेकीतः // (179) हन्नि हिंसा / [3 / 4 / 14 / 16 / ] यङि हन् घ्नि स्याद्धिसा चेद् गम्यते / जेनीयते / जघ्नीतः / हिंसायां किम् ? जङ्घन्यते / जघ्नीते / शृदीच्चान्तः // 14 // कः प्रत्युपात् सुड् वि चतुष्पदि त्वपाद्धृष्टान्नवासार्थिनि णम्युपालवेऽध्याहारयत्ने विकृते कृ संपरे भूषा समेतेऽपि च नाम्नि तस्कराः // 3 / 4 / 15 // वृत्तम्॥