________________ तृतीयोऽध्यायः चतुर्थः पादः 265 तृपादींश्चाह शुभशुम्भोरिति यावत् / तथा च दृभी दृभति / वृती वृन्तति / तृप इत्यादेश्चाप्रयोगः / तदत्रेष्टप्रत्याहारवशात् // (160) जभचि / [3 / 4 / 13 / 11 / ] नुम् / जम्भयति / जम्भनम् / जम्भिता / अचि किम् ? जभ्यम् // (161) रधः / [ 3 / 4 / 13 / 12 / ] अचि नुम् / रन्धयति / रन्धकः // (162) इट् लिटि / [3 / 4 / 13 / 13 / ] एवं ररन्धिथ / ररन्धिव / लिटि किम् ? रधिता / / (163) अलिट्शे रभस्तु / [3 / 4 / 13 / 14 / ] अचि नुम् / आरम्भयति / आरम्भः / लिट्शपि न / आरेभे / आरभते // 13 // लभष्टेण्णमोर्वा य्युपाङः स्तवान्ये क्सुदुर्यो घखेऽष्णादि नोष्वष्कषोऽष्ठिव् / प्रतोऽर्योल्र्तृतो वाऽङ्गरीणां डचि ग्रो यङि घ्राध्म ईच्चाय की हनि हिंसा // 3 / 4 / 14 // - भुजङ्गप्रयातम् // ___ (164) लभः / [3 / 4 / 14 / 1 / ] अलिट्शे अचि नुम् // लम्भयति / प्रलम्भनम् / अलिट्शे किम् ? लेभे / लभते / अचि किम् ? लब्धा / - (165) टेण्णमोर्वा / [3 / 4 / 14 / 2 / ] टितोऽप्रादिणि णमि च वा / प्रादेनित्यमेव / अलम्भि / अलाभि / लम्भम् / [लाभम् / ] प्रालम्भि / प्रलम्भम् // (166) य्युपाङः स्तवान्ये / [3 / 4 / 14 / 3 / ] यादौ परे उपालम्भेः स्तवेऽर्थे कर्तुः कर्मणो वा आङो यस्मिन् सामान्ये नुम् स्यात् / उपलम्भ्या भवता विद्या / उपलम्भ्यं शीलम् / उपात् किम् ? लभ्या विद्या / स्तुतौ किम् ? उपलभ्या वार्ता / एवम्, आलम्भ्या गौः / यि किम् ? आलब्धा / आङः किम् ? लभ्या / अन्यस्मिन किम ? समालभ्यः / / . (167) क्सुदुर्यो घखे / [3 / 4 / 14 / 4 / ] कितः सप्रादेर्लभे घणि खे च नुम्, तथा कितः सप्रादेः सुदुरः परस्य लभेः अत एव भ्यस् / प्रलम्भः / विप्रलम्भः / ईषत्प्रलम्भः / सुप्रलम्भः / दुष्प्रलम्भः / तथा, अतिसुलभः / [अतिसुलम्भः / ] प्रादेरेव किम् ? लाभ: ईषल्लाभः / तथा, सुलभः // (168) अस् / [3 / 4 / 14 / 5 / ] अनादि च सादि प्रत्याहारोऽत्र द्रष्टव्यः अतः प्राक्कार्येषु सिद्ध्यर्थम् // (169) णादि नः / [3 / 4 / 14 / 5 / ] भ्वादेरादिपर्णः नः स्यात् / णीञ्-नयति / णम नमति / भ्वादेः किम् ? णकारीयति / आदि किम् ? रणति / प्रतो नामि परं णत्वार्थं णोपदेशः // .. (170) अष्वष्कषोऽष्ठिव् / [3 / 4 / 147] भ्वादेरादिषः सः स्याद् विकृतस्य क्विणः षत्वार्थम् / अष्वष्काष्ठिव् / षह-सहते / षिचिर्-सिञ्चति / अष्वष्काष्ठिव् किम् ? ष्वष्कते / पञ्च.-३४