________________ 264 पञ्चग्रन्थी व्याकरणम् गणपाठात् / ऋभ्योऽप् वा / अणि ऋणिङ् / णे किम् ? जजान / बाधयति / बबाध / शशामः / जनयति / तित् श्मित् उक्तः / णि वधोऽर्थम् / अनाचमादेः किम् ? आचामकः / [ नियामक: विनामकः / आगामकः // ] (151) युक आतः / [3 / 4 / 13 / 2 / ] तथा / अदायि / [अधायि / दायकः / धायकः / ] दरिद्रायकः / अणि णे किम् ? धावयति / दधौ // (152) अरेङन्विक्कुसिपुकि परे स्यात् / [3 / 4 / 13 / 3 / ] उ श्नु विकरणौ / भ्वादेरिक् चारेङ् स्यात् कुसादौ परे यथासम्भवं पुकि / अर्पयति / व्लेपयति / कादेशे कुसि / अबिभरुः अबिभयुः / किदेतदर्थः / परे पराधिकारविहिते प्रत्यये / उ-तनोति / करोति / नु-सुनोति / इक् / कर्ता / चेता / स्तोता / हरति / जागर्ति / नयति / भवति / नेषीष्ट / च्च्येषीष्ट / कारयति / नाययति / लावयति / तितरिषति / सुसावयिषति / जुहव / जुहाव // (153) उपान्ते तिकः / [3 / 4 / 13 / 4 / ] उपान्तस्थस्य धातोईस्वस्येकः अरेङ् स्यात् प्रत्यये परे / कर्ता / विवर्तिषति / सिसेधिषते / रुरोचिषते / तिक् किम् ? ईहते / ऊहते / उपान्ते किम् ? सन्धुक्षते // (154) द्विश्चेद्धालौ / [ 3 / 4 / 13 / 5 / ] द्विरुक्तिश्चेत् कृता स्याद् हलि लिटि च परत उपान्तस्थ इगरेङ् स्यात् / वेवेक्ति / वेवेक्षि / वेवेज्मि / विवेज / विवेजिथ / एवं विचिर् णिजिर् विशृ / हल्लौ किम् ? वेविजानि / अनेनिजम् / वेविषीति / लिडजर्थम् // (155 ) अक्विझलि सृजिदृशोऽम् / [3 / 4 / 13 / 6 / ] आगमः स्याद् अकवर्गानुबन्धे झलि परे / ससिस्रष्टि / दष्टि / स्रक्ष्यति / [द्रक्ष्यति / ] अस्राक्षीत् / [अद्राक्षीत् / ] स्रष्टा / [द्रष्टा / ] झलि किम् ? विसर्जनम् / [निदर्शनम् / ] अक्वि इति किम् ? सृष्टिः // ( 156) वा तृपाम् / [3 / 4 / 13 / 7 / ] तथा अम् / अत्र द्विगम् / तृप्प्सृ प्कृष्स्पृश्मृश्चैषाम् / तत्रप्ति / तर्तप्ति / त्रप्ता / तप्त / अत्राप्सीत् / अतासीत् / एवं दृपादेः / [द्रप्ता / दर्ता / स्रप्ता / सप्र्ता / क्रष्टा / कल / स्प्रष्टा / स्पा / आम्रष्टा / आमा / ] अक्वि ज्झलि किम् ? तृप्तः / अस्पृक्षत् / तर्पणम् // (157) मग्नशोर्नुम् / [3 / 4 / 13 / 8 / ] स्सादिलुकि मस्जेर्नशेश्च झलि नुम् स्यात् / मङ्क्ता / मग्नः / मक्ष्यति / अमाङ्क्षीत् / ममक्थ / एवं, नंष्टा / झलि किम् ? मज्जनम् / निनशिपति // (158) तीतः / [3 / 4 / 13 / 9 / ] तित् इति स इदनुबन्धो यस्य इदितो धातोनिनिमित्तो नुम् स्यात् / कुण्डिता / कुण्डम् / कुण्डा / चुकुण्डिषति / चोकुण्ड्यते / हुण्डिता // (159) मुनां शे / [3 / 4 / 13 / 10 / ] र प्रत्याहारः / मुचाद्यष्टकस्य शें नुम् स्यात् / मुञ्चति / मुञ्चन् / एवं शे तृप तृम्प, दृप दृम्प, गुफ गुम्फ, उभ उम्भ, शुभ शुम्भ / मैकेनान्येऽतो विकल्पः / स च धातुद्वयात् सिद्धः / तृपति / तृम्पति / इत्यादि / अन्यो मुनिति प्रत्याहारेण